SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शारीरकमीमांसाभान्ये १" त्र्यात्मकत्वात्तु भूयस्त्वा" दिति तेनाभिधाभिदा ।। सोमाभावे च पूतीकग्रहणं श्रुतिचोदितम् । सोमावयवसद्भावादितिन्यायविदो विदुः ।। भावे च नीवारग्रहणं व्रीहिभावतः । तदेव सदृशं तस्य यत्तद्दव्यैकदेशभाक् ॥ शुक्त्यादै रजतादेश्व भावः श्रुत्यैव बोधितः । रूप्यशुक्तयादि निर्देशभेदो भूयस्त्वहेतुकः ॥ रूप्यादिसदृशश्चायं शुत्यादिरुपलभ्यते । अतस्तस्यात्र सद्भावः प्रतीतेरपि निश्चितः || कदाचिच्चक्षुरादेस्तु दोषाच्छुक्त यंशवर्जितः । रजतांश गृहीतोऽतो रजतार्थी प्रवर्तते ।। दोषहानौ तु शुक्यंशे गृहीते तन्निवर्तते । अतो यथार्थ रूप्यादिविज्ञानं शुक्तिकादिषु || बाध्यबाधकभावोऽपि भूयस्त्वेनोपपद्यते । शुक्तिभूयस्त्ववैकल्यसाकल्यग्रहरूपतः ॥ नातो मिध्यार्थसत्यार्थविषयत्वनिबन्धनः । एवं सर्वस्य सर्वत्वे व्यवहारव्यवस्थितिः ॥ स्वप्ने च प्राणिनां पुण्यपापानुगुणं भगवतैव तत्तत्पुरुषमात्रानुभाव्याः तत्तत्कालावसानाः तथाभूताचार्थास्सृज्यन्ते । तथा हि श्रुतिः स्वविषया ६" न तत्र रथा न रथयोगा न पन्थानो भवन्ति । अथ रथान् रथयोगान्पथस्सृजते । न तत्राऽनन्दा मुदः प्रमुदो भवन्ति । अथानन्दान्मुदः प्रमुदस्सृजते । न तत्र वेशन्ताः पुष्करिण्यस्स्रवन्त्यो भवन्ति । १. शारी, ३. अ. १.पा. २. सू. २.दित्ये तेना.पा. ५. निर्देभ्यो. पा. ३. श्रुतिदर्शितम्, पा. ४. यद्यद्दव्येति. पा. [अ. १. For Private And Personal Use Only ६. बु. उप, ६. अ. ३. बा. १०.७. वेशान्ताः . पा.
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy