________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पा. १.]
जिज्ञासाधिकरणम् ·
अथेदमज्ञानं स्वयमनादि, ब्रह्मणस्स्वसाक्षित्वं ब्रह्मस्वरूपतिरस्कृतिं च युगपदेव करोति । अतो नानवस्थादयो दोषा इति नैतत्; स्वानुभवस्वरूपस्यब्रह्मणस्स्वरूपतिरस्कृतिमन्तेरणसाक्षित्वापादनायोगात् । हेत्वन्तरेण तिरस्कृतमिति चेतुः तर्ह्यस्यानादित्वमपास्तम् । अनवस्था च पूर्वोक्ता । अतिरस्कृतस्वरूपस्यैव साक्षित्वापादने ब्रह्मणस्वानुभवैकतानता च न स्यात् ॥
अपि च - अविद्यया ब्रह्मणि तिरोहिते तद्ब्रह्म न किंचिदपि प्रकाशते ? उत किंचित्प्रकाशते ? पूर्वस्मिन् कल्पे प्रकाशमात्रस्वरूपस्य ब्रह्मणोऽप्रकाशे तुच्छतापत्तिरसकृदुक्ता । उत्तरस्मिन् कल्पे सच्चिदानन्दैकरसे ब्रह्मणि कोsयमंशस्तिरस्क्रियतेः को वा प्रकाशते ? निरंशे निर्विशेषे प्रकाशमात्रे वस्तुन्याकारद्वयासम्भवेन तिरस्कार: प्रकाशच युगपन्न संगच्छेते । अथ सच्चिदान्दैकरसं ब्रह्म अविद्यया तिरोहितस्वरूपमविशदमिवलक्ष्यत इति प्रकाशमात्रस्वरूपस्य विशदताऽविशदता वा किंरूपा । एतदुक्तं भवतियस्सांशस्सविशेषः प्रकाशविषयः तस्य सकलावभासो विशदावभासः । कतिपयविशेषरहितावभासश्चाविशदावभासः। तत्र य आकारोऽप्रतिपन्नस्तस्मिन्नंशे प्रकाशाभावादेव प्रकाशावैशयं न विद्यते । यश्चांशः प्रतिपन्न - स्तस्मिन्नंशे तद्विषयप्रकाशो विशद एव । अतस्सर्वत्र प्रकाशांशे अवैशद्यं
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
७९
संभवति । विषयेऽपि स्वरूपे प्रतीयमाने तद्गतकतिपयविशेषाप्रतीतिरेवावैशद्यम् । तस्मादविषये निर्विशेषे प्रकाशमाते ब्रह्मणि स्वरूपे प्रकाशमाने तद्गतकतिपय विशेषाप्रतीतिरूपावैशद्यं नामाज्ञानकार्य न संभवति ।।
अपिच - इदमविद्याकार्यमवैशद्यं तवज्ञानोदयान्निवर्तते न वा १ अनिवृत्तावपवर्गाभावः । निवृत्तौ च वस्तु किं रूपमिति विवेचनीयम् । विशदस्वरूपमिति चेत् ; तद्विशदस्वरूपं प्रागस्ति ; न वा ? अस्ति चे१. प्रकाशमाने कतिपयविशेषेति. पा.
२. संभवतीति पा.