SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सौभाग्यभास्कर - बालातपासहितम् पौनरुक्त्यपरिहारायोपायान्तरमाह । शाङ्करी श्रीकरी साध्वीत्यनेन पौनरुक्त्यपरिहाराय 'सम्प्रदायेश्वरी साध्वीत्यत्र साधु ई इति द्वेधा पदभेद: । 'तत्त्वाधिका तत्त्वमयी त्यनेन तत्परिहाराय तत्त्वासना तत्त्वमयी त्यत्र तत् त्वम् अति पदच्छेदः । पौनरुक्त्याभावेऽपि पदभेदभ्रमनिरासायाह-हंसेति । आ अर्धान्तात् अर्धसमाप्तिपर्यन्तं हंसवती मुख्यशक्तिसमन्वितेत्येकं पदम् । 'अनर्घ्या कैवल्यपददायिनी'त्यत्र तु 'क्लींकारी केवला गुह्या कैवल्यपददायिनी' त्यनेन पौनरुक्त्यपरिहारोऽपि फलम् । एतेन छलाक्षरसूत्राणां न्यायमूलकत्वमेवेति प्रबलन्यायेन क्वचित्तदुक्तनियमान्यथात्वेऽपि न दोष इति सूचितम् । अत एव सामेवेदिभिर्निदानसूत्रान्तर्गतछन्दोविचितिभाष्ये न्यायविरोधे छलाक्षरपाठोऽनादरणीय इत्युक्तं रथन्तरसामप्रकरणे । कान्तापदे अकारयोगे विनिगमनाविरहः, यथा वा 'कैवल्यपददायिनी त्यत्र पदान्तरयोगे सत्रन्यायतो विकल्पप्रसक्तावपि छलाक्षरसूत्रप्रमाण्यात् 'कल्पनारहिता काष्ठेत्यत्रेवाऽकान्तेति पदच्छेद: । 'कौलिनी केवले -- त्यत्रेवानर्घ्यपदस्योत्तरप्रयोग इति स्वीकर्तुं युक्तम् । अव्यवस्थितशास्त्रार्थायोगादिति द्रष्टव्यम् ॥ ३५ ॥ शक्तिर्निष्ठाधामज्योतिः परपूर्वकं द्विपदम् । शोभनसुलभासुगतिस्त्रिपदैकपदानि शेषाणि ॥ ३६ ॥ For Private and Personal Use Only 321 अनेकपदानि नामानि संगृह्णाति । शक्त्यादिपदचतुष्टयात्पूर्वं तद्विशेषणत्वेन परपदत्वेन पठ्यते । तेन सह द्विद्विपदानि तानि नामानि 'पराशक्तिः परानिष्ठा', 'परंज्योतिः परंधामे 'ति । 'कौलिनीकेवले त्यादौ 'अजाजेत्री 'तिवत्समाससम्भवान्न तत्र पदद्वयावश्यकतेति भाव: । 'शोभना सुलभा गतिरित्यत्र तु त्रिपदं नाम । शेषाण्येकपदानि समानाधिकरणानेकविभक्तिरहितानीत्यर्थः । तेन 'अश्वारूढाधिष्ठिताश्वकोटिकोटिभिरावृता' | 'मनोवाचामगोचरे 'त्यादौ व्यधिकरणविभक्तिद्वयसत्त्वेऽपि तयोर्नामभेदभ्रमानाधायकत्वेन द्विपदेषु तदाधायकानामेव गणनाद्वा न दोष: । 'पराशक्तिरित्यत्र 'शोभंनासुलभागतिरित्यत्र चैकैकं पदमित्येव सुवचमिति तु पूर्वमेवोक्तम् । ननु 'परंज्योतिरिति वाक्ये प्रातिपदिकसंज्ञाभावेन कथं नामत्वम् । न च 'प्रजापतेर्हृदयम्, 'पारेगङ्गम्', 'मध्येमहाभारत'मित्यादेरिवैकपदत्वम् । तेषु प्रथमपदान्ते विभक्तिसरूपवर्णमात्रसत्त्वेन विभक्त्यन्तराभावात् । न च 'परंज्योति रित्यादौ तथा सम्भवति । विशेष्योत्तरविभक्त्यन्यथाभावप्रयुक्तान्यथाभावकविभक्तिक[विभक्त]विशेषणपदकत्वात्। नीलमुत्पलमित्यादौ तथात्वे वाक्यत्वस्यैव स्वीकारात् । अत एव 'अहयेबुध्नियाय स्वाहा', 'अहेबुध्निय मन्त्रं मे गोपाय' इत्यादौ पदद्वयेऽपि विभक्तिव्यत्यास इति चेन्न | परिभाषिकप्रातिपदिकसंज्ञाया अभावेऽपि सम्भूयैकव्यक्तिविशेष्यकबोधजनकपदत्वरूपस्य नामत्वस्यैव सहस्रनामसंख्याघटकत्वेनादोषात् । वस्तुतस्तु ज्योतिःपदस्य प्रातिपदि -
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy