SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 293 सौभाग्यभास्कर-बालातपासहितम् इति । सत्तत्त्वं चित्तत्त्वं आनन्दतत्त्वं चेति त्रयाणां स्वरूपम् । सच्चिदानन्दाद्ब्रह्मणो जातेषु शिवादिक्षित्यन्तेषु शिवशक्त्योरानन्दांशोऽनावृतः, सदाशिवेश्वरशुद्धविद्यानां चिदंशोऽनावृतः, मायादिक्षित्यन्तानां तु सन्दंशमात्रमनावृतम्, सच्चिदानन्दानामुत्तरोत्तरावरणाभावस्य पूर्वपूर्वावरणाभावव्याप्यत्वनियमाच्छिवतत्त्वे त्रयमप्यनावृतम् । विद्यातत्त्वे सच्चिदंशावनावृत्तौ, आनन्दांशे त्वल्पमावरणम्, आत्मतत्त्वे तु चिदानन्दांशौ सम्यगावृतौ तिष्ठतः । आत्मशब्दोऽप्यात्मलाभ इत्यादिप्रयोगेऽस्तित्वमात्रपरत्वेन प्रसिद्धः, विद्याशब्दो ज्ञानरूपचित्परः, शिवशब्दो मोक्षरूपानन्दे प्रसिद्ध इति । तेन शब्दत्रयेणैव सच्चिदानन्दांशवत्त्वलाभ इति तत्त्वत्रयरहस्यम् । यद्वा षडध्वात्मकपरमात्मशरीरे षट्त्रिंशदात्मकतत्त्वाध्वनोऽप्यवयववत्त्वात्तत्त्वमयी । तदुक्तं कामिके पृथिव्यादीनि षट्त्रिंशत्तत्त्वान्यागमवेदिभिः । उक्तान्यमुष्य तत्त्वाध्वा शुक्रमज्जास्थिरूपधृक् ॥ इति । महावाक्यस्थयोस्तत्पदत्वंपदयोरर्थो शिवजीवौ स्वरूपमस्याः । सामगानप्रिया सौम्या सदाशिवकुटुम्बिनी ॥ २१९ ॥ सामगानं प्रियं यस्याः । सामगाश्छन्दोगाः । अनवत्प्राणवत्प्रियं यस्या इति वा । 'सोममर्हति य' इति सूत्रेण यप्रत्यये सोमयागाहा सोम्या | उमया सहितः सोमोऽवयवोऽस्या इत्यर्थे 'मये चेति सूत्रेण वा यत्प्रत्ययः । अथवा 'सोम : कर्पूरचन्द्रयोः । सोम इवाह्लादिकेत्यर्थे शाखादित्वाद्यप्रत्ययः । 'तत्र साधु रित्यर्थे यप्रत्ययो वा । सौम्येत्यादिवृद्धिपाठे तु चातुर्वर्ण्यादित्वात्स्वार्थे ष्यञ् । सदाशिवस्य कुटुम्बिनी भार्या श्यामलाशुद्धविद्याश्वारूढादिरूपेत्यर्थः ॥ २१९ ।। सव्यापसव्यमार्गस्थासव्यश्चापसव्यश्च मार्गश्च सव्यापसव्यमार्गास्तेषु स्थिताधिकृता । वितरणपालनाधिकारादिदानक्षमेति यावत् । तेषां त्रयाणां स्था स्थितिर्यस्यामिति वा । सन्ति हि सवितृमण्डलस्योत्तर-दक्षिण-मध्यभागभेदेन त्रयो मार्गाः । अश्विन्यादिभिस्त्रिभिस्त्रिभिर्नक्षत्रैरेकैका वीथी | तादृशीभिस्तिसृभिस्तिसृभिर्वीथीभिरेकैको मार्गः । तदेतद्विस्तरेणोक्तं वायुपुराणे 'अश्विनी कृत्तिका याम्या नागवीथीति शब्दिता । रोहिण्याा मृगशिरो गजवीथ्यभिधीयते ॥ सामगानं प्रियं यस्याः सा । प्रियायै इति || सौम्या शान्तरूपा । सौम्यायै इति ॥ सदाशिवस्य कुटुम्बिनी गृहणी । कुटुम्बिन्यै इति ॥ २१९ ॥ सव्यापसव्यमार्गयोः दक्षिणवाममार्गयो रा]राध्यत्वेन स्थिता । मार्गस्थायै इति || For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy