________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
232
ललितासहस्रनामस्तोत्रम् मित्यादिनोत्तरोत्तरं सुलभप्रकारोपदेशः । न चैतावता पापमाशङ्कनीयमित्याहुः । शुभकरी शुभं पुण्यमेव करोति मोक्षादिपुरुषार्थरूपत्वाच्छोभना सुखोपास्यत्वात्सुलभा च गतिः प्राप्तव्यं स्थानम् । गम्यत इति गतिः फलम् । ज्ञानमुपायो वा 'गतिर्मार्गे दशाया च ज्ञाने यात्राभ्युपाययो रिति विश्वः । एषैव सर्वभूतानां गतीनामुत्तमा गति रिति कौर्मात् । शोभनायै सुलभायै गत्यै नम इति चतुर्थीत्रयेण प्रयोगः । अत्र शोभनागतिः । सुलभागतिरिति गतिपदानुषङ्गेण नामद्वयं सुवचम् । तावतैव पौनरुक्त्यपरिहारसम्भवात् । अत्र हि शोभनेति पदत्रयं पठ्यते । सुमुखी नलिनी सुभ्रूः शोभनेति यथास्थितमेकं नाम | सुवासिन्यर्चनप्रीताशोभनेत्यत्र चतुरक्षरमशोभनेति द्वितीयम् । प्रकृते चाकारप्रश्लेषायोगात्पार्थक्यायोगाच्चोत्तरपदेनैकवाक्यतां कल्पयित्वा पौनरुक्त्यमुद्धियत इति स्थितिः । मतिरमतिरित्यादिरीत्या पदच्छेदेप्येषैवोपपत्तिर्मूलम् । भगवत्पादैर्विष्णुसहस्रनामभाष्ये ईदृशीभिरेवोपपत्तिभिः पदच्छेदस्य निर्णीतत्वात् । यथा निधिरव्यय इत्यत्र पदद्वयस्यैकनामत्वमव्ययः पुरुषः साक्षीत्यनेन. पौनरुक्त्यपरिहाराय । एवं स्थविरोध्रुव: शाश्वतस्थाणुः सर्वविद्भानुर्वाचस्पतिरुदारधीरित्यादिषु । एवं जननोजनजन्मादिर्भीम इत्यनेन पुनरुक्तिपरिजिहीर्षयाऽतुलः शरभो भीम इत्यत्राभीम इत्यकारप्रश्लेषः कृतः । एवमिष्टो विशिष्ट इत्यादि । ततश्च छलाक्षरसूत्राणामपीदृशोपपत्तिमूलकत्वेन तदुक्तरीत्यैव पदच्छेदे नातीवादरः कर्तव्यः । अनेनैव न्यायेन सामवेदिभिर्वेदमर्यादयापि पठ्यमान ऊहग्रन्थो न्यायामूलकत्वात्पौरुषेय एवेति न्यायविरोधे तस्याप्रमाण्यमिच्छन्ति जैमिनीयाः । प्रकृते तूभयथापि पौनरुक्तत्यपरिहारसम्भवे प्रसवित्री प्रचण्डाज्ञाप्रतिष्ठाप्रकटाकृतिरिति पकारादिनामप्रायपाठे ज्ञेत्यस्य भिन्नपदत्वस्वीकारे सन्दर्भशुध्यसामञ्जस्यात्तत्र प्रचण्डाज्ञेत्यस्यैकपदत्वलिप्सया प्रकृते गतिपदानुषङ्गेणापि नामद्वयं स्वीकर्तुमुचितमिति दिक् । सर्वथैकमेव नामेति यद्याग्रहस्तदैकमेव पदमिति सुवचम् । शोभना च | सावसुलभाचेति विग्रहे सुदुर्लभेत्यर्थः। सुदुर्लभा आगतिः पुनरावृत्तिर्यया। जन्मछेत्रीति यावत् ।
'यस्य नो पश्चिमं जन्म यदि वा शङ्करः स्वयम् ।
तेनैव लभ्यते विद्या श्रीमत्पञ्चदशाक्षरी ॥ इति ब्रह्माण्डपुराणात् । यद्वा । असुलभा गतिर्दुर्लभं जन्म मानुषादि तच्छोभनं ययेत्यर्थः । उक्तञ्च देवीभागवते
यैर्न श्रुतं भागवतं पुराणं नाराधिता यैः प्रकृतिः पुराणी । हुतं मुखे नैव धरामराणां तेषां वृथा जन्म गतं नराणाम् ॥
For Private and Personal Use Only