________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सौभाग्यभास्कर - बालातपासहितम्
याजुषाथर्वणबह्वचैर्भिन्नछन्दस्कत्वेन पाठेऽपि भेदानङ्गीकारस्तान्त्रिकाणां संगच्छते । अतएव च भूतशुद्ध्यन्तर्गतजलमण्डलशोधने विकल्पेन विनियोगो न्यायसिद्धः । तदुक्तम्
'अस्वन्तरिति मन्त्रेण शोधयेदम्बुमण्डलम् । आर्थोष्णिहा पुरस्ताच्च बृहत्या पुर उष्णिह ॥
इति । एवं 'युञ्जन्ति हरी इषिरस्येति मन्त्रो बह्वचछन्दोगाभ्यां छन्दोभेदेन पठ्यमानोऽपि न भिद्यते । अनेनैवाशयेन नार्मेधाख्यसामाधिकारे 'अथ पुर उष्णिगनुष्टुप्तेनानुष्टुभो नयन्तीति श्रुतौ द्वयोरपि छन्दसोरुल्लेखः । तेन तन्त्रराजहादिविद्याधिकारे पठितानां कालनित्यामन्त्राणां पारायणानां च कादिविद्याङ्गत्वेनापि लेखः पद्धतिकाराणां संगच्छत इति दिक् । अवधानं विषयान्तरसञ्चाराभावस्तत्सहितं मनो यस्य तादृशः सन् । इतरकोटीनां तेष्वरसानां च तवैव स्फुरितत्वेऽपि तद्विलक्षणायाः कोटेर्विवक्षिताया झटिति त्वद्बुद्धौ स्फुरणायोग्यत्वादिति भावः । यत् येन कारणेन 'निमित्तपर्यायप्रयोगे सर्वासां प्रायदर्शन मिति वार्तिक सर्वविभक्तीनां साधुत्वाभिधानात् ॥ १२ ॥
रहस्यमिति मत्वाहं नोक्तवांस्ते न चान्यथा । पुनश्च पृच्छसे भक्त्या तस्मात्तत्ते वदाम्यहम् ॥ १३ ॥
प्रकटार्थस्योक्तौ प्रश्नभक्तिसदसद्भावापेक्षा नावश्यकी । किन्तु रहस्यविषय एवोक्तरूपा वस्तुस्थितिरित्युपसंहारं द्योतयन् भक्तिपूर्वकप्रश्नस्योपदेशस्य चान्वयव्यतिरेकावुपदिशति - रहस्यमितीति । ते तुभ्यं अपृष्टवते इति शेषः । अन्यथा न त्वदुत्प्रेक्षितनिमित्तानि न भवन्ति । अस्वरसानां तवैव स्फुरितत्वादिति भावः । भक्त्या भक्तिपूर्वकम् । तस्मात् भक्तियुक्तप्रश्नाभावकृतप्रतिबन्धस्यापगमात् । तत् ललितानामसहस्रम् ॥ १३ ॥
ब्रूयाच्छिष्याय भक्ताय रहस्यमपि देशिकः ।
भवता न प्रदेयं स्यादभक्ताय कदाचन ॥ १४ ॥
उक्तार्थे संमतिमाह-ब्रूयादिति । वक्त्रा पृच्छकेन श्रोतृभिश्च तत्त्वबुभुत्सूनां सभा भवति तत्र वक्तृभिन्नाः सर्वेऽपि यद्यपि शिष्यास्तथापि रहस्यपदार्थस्य रह जनबाहुल्याभावे सत्येव वक्तव्यत्वादत्र शिष्यशब्देन पृच्छक एवावशिष्यत इत्याशयेन शिष्यायेत्युक्तम् । त्वयाप्येवं वर्तितव्यमित्याशयेनाह - शिष्यायेत्यनुवर्तते पृच्छकायापि न देयमित्यर्थः । तेनापृच्छकायापि प्रश्नासमर्थाय भक्ताय देयमिति सिद्धयति ॥ १४ ॥
अभक्ताय
For Private and Personal Use Only