________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
210
ललितासहस्रनामस्तोत्रम् देवेशी दण्डनीतिस्था दहराकाशरूपिणी । देवानां ब्रह्मविष्णवादीनामीशी ईश्वरी । दण्डनीतावर्थशास्त्रे तिष्ठति इति तथा । नीतिशास्त्रोक्तज्ञापि देव्येवेति यावत् । तदुक्तं देवीपुराणे
'नयानयगताँल्लोकानविकल्पे नियोजनात् ।
दण्डनाहमनाद्वापि दण्डनीतिरिति स्मृता । । इति । दहरमल्पमाकाशं हृदयकुहरवर्ति तदेव रूपमस्याः । 'दहर उत्तरेभ्यः , इत्युत्तरमीमांसाधिकरणे, 'अथ यदस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्मदहरोऽस्मिन्नन्तराकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्य मिति श्रुतौ दहराकाशस्यैव परब्रह्मत्वनिरूपणात् ।
प्रतिपन्मुख्यराकान्ततिथिमण्डलपूजिता ॥ १७३ ॥ प्रतिपत्तिथिर्मुख्या आद्या यस्मिन् राका पूर्णिमातिथिरन्ते यस्मिस्तस्मिस्तिथिमण्डले पञ्चदशतिथिसमूहे पूजिता । तिथिभेदेन पूजाभेदस्य तन्त्रेषु कथनात्तादृशप्रकारविशेषैरर्चितेत्यर्थः । यद्वा प्रतिपदाकाशब्दौ कामेश्वरीचित्रापरौ । तिथिशब्दो नित्यापरः । तेन नित्यामण्डलेन पूजिता त्रिकोणरेखात्रयरूपेणावृता । अथवा प्रतिपन्मुख्या राकान्ताश्च तिथयो यासां देवतानां तासां मण्डलेन समूहेन पूजिता । ताश्च वराहपुराणे
'कथमग्नेः समुत्पत्तिरश्विनोर्वा महामुने । गौर्या गणपतेर्वापि नागानां वा गुहस्य च ॥ आदित्यस्य च मातृणां दुर्गाया वा दिशां तथा। धनदस्य च विष्णोर्वा धर्मस्य परमेष्ठिनः ॥ शम्भोपि पितॄणां वा तथा चन्द्रमसो मुने । शरीरे देवताश्चैताः कथं मूर्तित्वमागताः ॥
किञ्च तासां मुने भोज्यं काश्च संज्ञा तिथिश्च का ।" इति प्रश्ने षोडशभिरध्यायैः प्रतिपदातिथिदेवतात्वेन क्रमेणाग्न्यादीनामुत्पत्तय उक्ताः । अत्र परमेष्ठिशब्दो विशेषणमात्रम् । अत एवोक्तं कादिमतेऽपि
'वह्निस्रावुमा विघ्नो भुजङ्गः षण्मुखो रविः । मातरश्च तथा दुर्गा दिशो धनदकेशवौ ॥ यमो हरः शशी चेति तिथीशाः परिकीर्तिताः ।
देवानां ब्रह्मादीनां ईशी ईश्वरी । ईश्यै इति ॥ दण्डनीतिः नीतिशास्त्रम्, तत्राज्ञारूपेण तिष्ठतीति सा । स्थायै इति ॥ दहराकाशो हृदयकमलान्तरवृत्यवकाशः स रूपं अस्या इति । रूपिण्यै इति ॥
मा अन्ते यासां तासां तिथीनां यन्मण्डलं तस्मिन तत्तन्नित्यारूपेण पूजिता । पूजितायै इति ॥ १७३ ॥
For Private and Personal Use Only