________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
193.
सौभाग्यभास्कर-बालातपासहितम् हरिद्रान्नैकरसिका हाकिनीरूपधारिणी ॥ १५९॥ हरिद्रामिश्रेऽन्ने एको मुख्यो रसो रसवत्ता बुद्धिः प्रीतिर्यस्याः । हाकिन्याख्याया देव्या रूपं धारयितुं शीलमिति तथा ॥ १५९ ॥
सहस्रदलपग्रस्था सर्ववर्णोपशोभिता। ब्रह्मरन्ध्रे सहस्रदलं पद्मं तत्र याकिन्याख्या योगिनी तिष्ठति । तदुक्तम्
'मुण्डव्योमस्थपने दशशतदलके कार्णिकाचन्द्रसंस्था रेतोनिष्ठां समस्तायुधकलितकरां सर्वतोवक्त्रपनाम् । आदिक्षान्तार्णशक्तिप्रकरपरिवृतां सर्ववर्णां भवानी
सर्वान्नासक्तचित्तां परशिवरसिकां याकिनी भावयामः॥ इति । सहस्रदले पद्मे तिष्ठतीति तथा । सर्वैर्वर्णैः पाटलश्यामरक्तपीतादिरूपैरुपशोभिता । चित्रवर्णेति यावत् । यद्वा सर्वाण्यकारादिक्षकारान्तानि वर्णा अक्षराणि यासां ताभिरमृतादिक्षमावत्यन्ताभिः पञ्चाशच्छक्तिभिरुपसमीपे दलेषु शोभिता आवृता अनुलोमविलोमरीत्या शतसंख्याभिस्ताभिर्दशवारं दलेषु स्थिताभिः परिवृतेति यावत् । उपशब्दस्योक्तपरिभाषया दशसंख्याबोधकत्वासम्भवाच्च । अत एव योगिनीन्यासे दशवारं तासां न्यासं केचिदिच्छन्ति ।
सर्वायुधधरा शुक्लसंस्थिता सर्वतोमुखी ॥ १६० ॥ ___ सर्वेषामायुधानां धरा धारयित्री । 'सहस्राणि सहस्रधा बाह्वोस्तव हेतय' इति श्रुतेः । शुक्ले वीर्याख्यधातौ सम्यक् तदभिमानित्वेन स्थिता । भविष्योत्तरपुराणे रमणकालीनध्यानविशेष: शुक्लसंज्ञः कथितस्तत्र स्थिता वा । सर्वतः सर्वासु दिक्षु मुखानि यस्याः सा । 'सर्वतोऽक्षिशिरोमुखमितिवचनात् ॥ १६० ॥ अथ परिभाषायां द्वात्रिंशन्नामानि विभजते
हेदाराः फलरेखारम्भविवादे तमोऽशोस्ति ।
खेदो देहे भीष्मो देवे वा व्यथ्रिलिङ्गफले ॥ २१ ॥ स्पष्टार्थः ॥ २१ ॥
हरिद्रामिश्रितान्नस्य एका मुख्या रसिका रसज्ञा । रसिकायै इति । हाकिन्याः रूपं धारयतीति सा | धारिण्यै इति ॥ १५९ ॥
सहस्रदलपद्मं ब्रह्मरन्ध्रस्थं यत्र तिष्ठतीति सा । स्थायै इति ॥ सर्वैर्वर्णेरुक्तैरारक्तादिभिः उपशोभिता शोभमाना । शोभितायै इति ॥
सर्वेषामुक्तानां खट्वाङ्गादीनामायुधानां धरा । धरायै इति ॥ शुक्ले शुक्लधातौ सम्यक् स्थिता । स्थितायै इति ॥ सर्वतः सर्वदिक्षु मुखानि यस्याः सा । मुख्यै इति ॥ १६० ॥
For Private and Personal Use Only