SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 106 www.kobatirth.org ललितासहस्रनामस्तोत्रम् 'सत्येन ब्रह्मचर्येण लिङ्गमस्य यथा स्थितम् । समर्चयन्ति ये लोकास्तन्महेश्वर उच्यते ॥' इति । भारते - 'महेश्वरः स भूतानां महतामीश्वरश्च स इति च । यस्य पञ्चविंशतिव्यूहो वातुलशुद्धे प्रतिपादितः सोऽपि महेश्वरस्तस्येयं माहेश्वरी । महती च सा देवी च महादेवी | महत्त्वं च प्रमाणागम्यशरीरकत्वम् । तदुक्तं देवीपुराणे 'बृहदस्य शरीरं यदप्रमेयं प्रमाणतः । धातुर्महेति पूजायां महादेवी ततः स्मृता ॥ इति अथवा चन्द्रमूर्तेः शिवस्य महादेव इति संज्ञा तस्य पत्नी । बुधस्य माता रोहिणीनाम्नी देवीत्यर्थः । तथा च लै 'समस्तसौम्यवस्तूनां प्रकृतित्वेन विश्रुतः । सोमात्मको बुधैर्देवो महादेव इति स्मृतः ॥ सोमात्मकस्य देवस्य महादेवस्य सूरिभिः । दयिता रोहिणी प्रोक्ता बुधश्चैव शरीरजः ॥ इति । वायवीयेऽपि - Acharya Shri Kailassagarsuri Gyanmandir 'नाम्ना देवस्य महतश्चन्द्रमास्तनुरष्टमी । पत्नी तु रोहिणी तस्य पुत्रश्वास्य बुधः स्मृतः ॥ इति । सेयं गण्डक्यां चक्रतीर्थाधिष्ठात्री देवता । 'शालग्रामे महादेवी' ति पाद्मे पुष्करखण्डे देवीतीर्थेषु परिगणनात् । तत्रैव 'करवीरे महालक्ष्मी रिति परिगणितां देवीमाह महालक्ष्मीः । महती च सा लक्ष्मीश्च । महाविष्णोरियं पत्नी । करवीरं कलौ कोलापुरमिति प्रसिद्धम् । अथवा अम्बिकांशभूतैवेयम् । तदुक्तं मैलारतन्त्रे'महालनामकं दैत्यं स्यति क्षपयतीति च । महालसा महालक्ष्मीरिति च ख्यातिमागता ॥ उपत्यकायां सह्याद्रेः पश्विमोदधिरोधसि ।' इति । शिवपुराणेऽपि शिवं प्रस्तुत्य - 'तस्याङ्कमण्डलारूढा शक्तिमहिश्वरी परा । महालक्ष्मीरिति ख्याता श्यामा सर्वमनोहरा ॥ इति । आयुष्यसूक्ते- 'श्रियं लक्ष्मीमम्बिकामौपलाङ्गामित्यत्र लक्ष्मीपदमात्रस्य पार्वत्यां प्रयोगश्च । तेन पदेन पूज्यवाचिमहत्पदस्य सन्महत्परमेत्यादिसूत्रेण समासः । 'सर्वस्याद्या महालक्ष्मीस्त्रिगुणा सा व्यवस्थितेति माकण्डेयपुराणञ्च । त्रयोदशवर्षात्मक For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy