SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३५ श्रीगौतमस्वामिस्तोत्रम् सगधेषु गोर्बर इति प्रथितं पदमस्ति तत्र सुभवं विभवम् । गुणरत्नरोहणगिरिं सुगिरं प्रणमामि गौतमगणप्रगुणम् ॥ ३॥ नतनाकिमौलिमुकुटप्रकटप्रसरन्मणीरुचिविधूतपदम् । भविकेक्षणमृतसदञ्जनभं गणधारणं श्रयत भो भविकाः ! ॥ ४॥ महाशालशालौ विशालौ यशोभिर्यदीयार्यचर्या विभाव्यातिभाव्याम् क्षणात् प्रापतुः केवलालोकलक्ष्मी स्तुमस्तं गुरुं गौतमं दीप्रधर्मम् ५ गणाधीश! पृथ्वीसुतोऽपि क्वचित्त्वं नधत्से गति वक्ररूपां कदाचित् । न रागाकृति तिचारोपचारी सुसौभाग्यभोगप्रतिष्ठानिधानम् ॥६॥ सदष्टापदारोहचर्येक्षणेनाश्रितास्तापसा विस्मिताः पायसान्नम् ।। स्वदन्तः सुभावेन कैवल्यमीयुर्यदेकप्रभावात्स जीयाद्गणेन्द्रः ॥ ७ ॥ चरित्रं पवित्रोरु केचिद्यदीय निरीक्ष्य प्रपन्ना हि कैवल्यलीलाम् । अयश्चातुरी केचिदास्यं च केचिद्गति केचिदस्तु श्रियेऽसौ मुनीशः ॥८॥ प्रथमगणधरोऽयं भाग्यसौभाग्यसम्प निधिरुचितमिहास्तु स्वस्तिभाजो भवेयुः। सुभविकनिकरा यदर्शनेनैव शश्व द्वचनसुरसपानात् किं पुनः सिद्धिसिद्धौ ॥९॥ जननमरणवेलालोलकल्लोलमाला हतिविरतिभूतानामात्मभान्तावतास्तु । भयदभवपयोधेीभरो व्याप्तलोकः, प्रथमगणपतेः सद्दर्शनं स्यान्न यावत् ॥ १० ॥ तदुचितमिह यच्छ्रीगौतमस्याभिधाने निवसति जगतीस्थाशेषसंपत्प्रभुत्वम् । कथमनुदिनमेतन्मन्त्रजापप्रभावात् श्रयति सकललक्ष्मीरन्यथा भक्तभव्यात् ॥ ११ ॥ गणधरवरलब्धिर्विश्वविश्वोपकारा जगति जयतु यस्या द्वादशाङ्गीप्रसूतिः। तदनु सकलदेशोदारसत्संयमश्रीः प्रभवति भविकानां मोक्षलक्ष्मी तु यस्याः ॥ १२ ॥ For Private and Personal Use Only
SR No.020687
Book TitleJin Stotra Kosh
Original Sutra AuthorN/A
AuthorChandrodayvijay, Suryodayvijay
PublisherKot Tapgacch Murtipujak Shwetambar Jain Sangh
Publication Year1958
Total Pages101
LanguageHindi
ClassificationDictionary
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy