SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २६ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीनमिदेव स्तोत्रम् अथ श्रीनमिदेवस्तोत्रम् ॥ २७ ॥ जगती विजयार्जिताह्वयक्षितिपश्रीविजयान्वयश्रियाम् । करुणाकरसारशासनं नमिमेनं शरणं श्रये जिनम् ॥ १ ॥ परशासनजागमस्थितिं ह्यपशब्दा इव नार्थसङ्गतिम् । श्रयते यशसेऽर्थसंविदे न तथा शासनमद्भुतं तव ॥ २ ॥ त्रिजगत्युपकारसारताऽस्त्यत एवेव जिनाङ्गिसम्पदे । श्रुतरूपमुपेत्य निर्मलं तव कैवल्यरमा प्रवर्त्तते ॥ ३ ॥ तव केवलसंविदंशतां मतिमुख्याश्चतुरार्यसंविदः । दधते कथमन्यथा यथातथरूपास्त्वमिवेह ताः प्रभोः ॥ ४ ॥ वैतालीयम् । श्रीनमिनेतस्त्वं तनु यथार्थवित्तामिति स्तुतो भविनाम् । wwwm श्रीहर्षविनय सूरितगुणोदयो धर्महंस विभो ॥ ५ ॥ M ॥ इति श्रीनमिदेवस्तोत्रम् ॥ २७ ॥ अथ श्रीनेमिदेवस्तोत्रम् ॥ २८ ॥ स्वागता छन्दःआसमुद्रविजयाप्तनि जाह्नश्रीसमुद्र विजयान्वयलक्ष्मीम् । श्रीमुकुन्दहृदयाम्बुजभृङ्गं संस्तवीमि जिननेमिमहं तम् ॥ १ ॥ त्वद्वचः सुपथ संत्यजनस्था अध्वगा इव महाटविभूषु । अन्यतीर्थ कपथेषु सुसक्ताः प्राप्नुवन्ति मनुजा अतिदुःखम् ॥ २ ॥ शासनं सुनयभासन सर्वैरागमोक्तविविधोक्तिगमस्थैः । तीर्थनाथ शरणं भववार्द्धा यानपात्रमिव ते भविकानाम् ॥ ३ ॥ नेमिदेव तव दर्शनसम्पत् कल्पवल्लिरिव कामितकर्त्री । सेवनं तव चरित्ररमेव ब्रह्मसंभव सुखोद्भवबीजम् ॥ ४ ॥ श्रीनेमिः स्याद्वादी सकलादेशस्थगीः स्तुत इतीशः । ततहर्षविनयसूरितजयदः स्ताद्धर्महंसततिः ॥ ५ ॥ इति श्रीमदेवस्तोत्रम् ॥ २८ ॥ For Private and Personal Use Only
SR No.020687
Book TitleJin Stotra Kosh
Original Sutra AuthorN/A
AuthorChandrodayvijay, Suryodayvijay
PublisherKot Tapgacch Murtipujak Shwetambar Jain Sangh
Publication Year1958
Total Pages101
LanguageHindi
ClassificationDictionary
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy