________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीवासुपूज्यजिनस्तोत्रम् ॥ अथ श्रीश्रेयांसदेवस्तोत्रम् ॥१७॥ अथ शिखरिणीजगजिष्णूदामानुपमभुजधाम स्ववशिता
खिलश्रीश्रीविष्णुक्षितिपतिकुलालंकृतिमणिम् । जगद्ध्येया देयानणुगुणमणीरोहणगिरि,
स्तुमः श्रीश्रेयांसं भविकभविका लोककुशलम् ॥१॥ शरण्येऽलं पुण्ये नयगममये सत्प्रमितिभिः,
प्रतिष्ठानिष्ठे ते पटुशिवपदे शासनपथे। विभो यः संदेग्धि प्रतिहरति वा दुर्नयधिया, __ सपथ्ये तथ्ये स्याद्धितकृतिकुधीः स्वादु सरसे ॥२॥ कुतीर्थ्या निष्णाताः सुखशयनपश्चाक्षविषय
प्रभोगास्वादाद्यैः शिवपदसुखं मुग्धसुलभम् । सदाहुलीलाभिस्त्वमिति न जिनाख्यासि विबुधा,
स्तथापि त्वन्मार्ग शिवपदधिया शिश्रियुरहो ॥३॥ परेशानां शिष्याः कुनयमतिभिर्दुस्तपतप,
स्तुतिर्योगानन्यानपि विदधतां हायनशतम् । तथाऽप्येतेनाप्या वितथपथमप्राप्य न मनाक्,
त्वदुक्तं तत्त्वार्थ शिवपथगमा मोक्तुमनसः ॥४॥ श्रीश्रेयांसजिनेशः स्तुत इति विजयप्रदोऽस्तु मे भगवान् । जय हर्षविनयसूरितपदकमलो धर्महंसशशिः ॥ ५ ॥
॥ इति श्रीश्रेयांसदेवस्तोत्रम् ॥ १७ ॥
॥ अथ श्रीवासुपूज्यजिनस्तोत्रम् ॥ १८॥ श्रीनरेशवसुपूज्यपूज्यसद्वंशभूषणमणिं कलालयम् । सर्वदैव जयसम्पदोदितं वासुपूज्यजिनमानमाम्यहम् ॥१॥ स्यादनेकमपि वाच्यमेककं वाचकद्वयमयं तथा दिशन् । विश्ववस्तुषु यथार्थवादितां सर्वदेश लभसे त्वमेव हि ॥२॥
For Private and Personal Use Only