SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १०/५३ ] गारुडतन्त्राधिकारः १० । ७३ ‘संस्नाप्य' तं शिष्यं सम्यक्स्नापयित्वा । कैः ? 'चतुःकलशैः' प्राङ्मण्डलकोणस्थचतुः पूर्णकलशैः । कथम्भूतैः ? 'सहिरण्यैः' स्वर्णयुक्तैः । 'तं' शिष्यम् | 'सतः' स्नानानन्तरम् । 'अन्य वस्त्रादीन्दत्त्वा पूर्ववस्त्रादीनपहायान्यनववस्त्रादीन् दत्त्वा । ' तस्मै' एवंविधशिष्याय । 'मन्त्रं निवेदयेत्' । कथम्भूतं मन्त्रम् ? 'गुरुकुलायातम्' गुरुपारम्पर्येणागतम् ॥ भवतेऽस्माभिर्दत्तो मन्त्रोऽयं गुरुपरम्परायातः । साक्षीकृत्य हुताशनरविशशिताराम्बराद्रिगणान् ॥ ४९॥ 'भवते' तुभ्यं शिध्याय । 'अस्माभिर्दत्त:' । 'मन्त्रोऽयं प्राकथितमन्त्रः । कथम्भूतः ? 'गुरुपरम्परायातः ' गुरुपारम्पर्येणागतः । किं कृत्वा ? 'साक्षीकृत्य' साक्षिकं कृत्वा । कान् ? 'हुताशन र विशशिताराम्बराद्विगणान्' अग्न्यर्कचन्द्रनक्षत्राकाशाद्रिसमूहान् ॥ भवतापि न दातव्यः सम्यक्त्वविवर्जिताय पुरुषाय । किन्तु गुरुदेवसमयिषु भक्तिमते गुणसमेताय ॥ ५० ॥ 'भवतापि' त्वयापि । 'न दातव्य:' न देयः । कस्मै ? 'सम्यक्त्वविवर्जिताय' सम्यक्त्वविहीनाय । 'पुरुषाय' नराय । 'किन्तु' अथवा 'गुरुदेवसमयिषु भक्तिमते' गुरुदेवसमये भक्तियुक्ताय । 'गुणसमेताय' सकलगुणसंयुक्ताय एवंगुणविशिष्टाय पुरुषाय दातव्यः ॥ १ मया क पाठः लोभादथवा स्नेहाद्दास्यसि चेदन्यसमयभक्ताय । बालस्त्रीगोमुनिवधपापं यत्तद्भविष्यति ते ॥५१॥ Acharya Shri Kailassagarsuri Gyanmandir 'लोभात्' अर्थाभिलाषात् । अथवा 'स्नेहात् ' व्यामोहात् । 'दास्यसि चेत्' यदि इमां विद्यां दास्यसि । कस्मै ? ‘अन्यसमयभक्ताय' परसमयभक्तियुक्ताय । तदा 'बालस्त्रीगोमुनिवधपापं यत्' बालक स्त्रीजनगोमुनिजनहननेन यत् पापम् । 'तद्भविष्यति से' तत् पापं तव भविष्यति । इत्येवं श्रावयित्वा तं सन्निधौ गुरुदेवयोः । मन्त्री समर्पयेन्मन्त्रं मन्त्रसाधनयोगतः ॥ ५२ ॥ 'तं' मन्त्रग्राहकम्। ‘इत्येवं श्रावयित्वा' इत्यनेन प्रकारेण शपथं कारयित्वा । कथम् ? 'सन्निधौ गुरुदेवयोः' गुरुदेवयोः सन्निधाने । 'मन्त्री' मन्त्रवादी । 'समर्पयेत्' नियोजयेत् । कम् ? 'मन्त्रम्' गुरुपारम्पर्यागतं मन्त्रम् । कथम् ? 'मन्त्रसाधनयोगतः' मन्त्राराधनविधानयोगात् ॥ प्रशस्तिः सकलनृपमुकुटघटितचरणयुगः श्रीमदजित सेनगणी । जयतु दुरितापहारी भव्यौघभवार्णवोत्तारी ॥ ५३ ॥ For Private And Personal Use Only
SR No.020681
Book TitleBhairav Padmavati Kalp
Original Sutra AuthorN/A
AuthorK V Abhyankar, Sarabhai Manilal Nawab
PublisherSarabhai Manilal Nawab
Publication Year1937
Total Pages307
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy