SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६३ १०८ गारुडतन्त्राधिकार: १० ___ 'क्षिप 3 स्वाहा बीजानि' क्षिप 3 स्वाहेति पञ्च बीजानि । 'विन्यसेत्' विशेषेण स्थापयेत् । केषु ? 'पादनामिहन्मुखशीर्षे' पादद्वये, नाभी, हृदये, आस्ये, मस्तके इत्येतेषु पञ्चसु स्थानेषु । कथम्भूतानि बीजानि ? 'पीतसितकाश्चनासितसुरचापनिभानि' पीतं-हरिदानिर्भ, श्वेत-श्वेतवर्ण, काञ्चनं-सुवर्णवर्ण, असितं-कृष्णवर्ण, मुरचापं-इन्द्रधनुर्वर्ण, निभानि-सदृशानि। एवं पञ्चवर्णबीजानि 'परिपाट्या' 'क्षि' बीजं पीतवर्ण पादद्वये, 'प' बीजं श्वेतवर्ण नाभौ, 3 बीजं काञ्चनवर्ण हृदि, स्वा इति बीजं कृष्णवर्ण आस्ये, 'हा' इति बीजं इन्द्रचापवर्ण मूर्ध्नि, एवं क्रमेण पञ्चसु स्थानेषु विन्यसेत् ॥ इत्यङ्गन्यासक्रमः ।। अतः परं रक्षाविधानं कथ्यते पद्मं चतुर्दलोपेतं भूतान्तं नामसंयुतम् । दलेषु शेषभूतानि मायया परिवेष्टितम् ॥६॥ 'पद्म' कमलम् । 'चतुर्दलोपेतं' चतुःपत्रयुक्तम् । 'भूतान्त' भूतानि-पृथिव्यप्तेजोवाम्वाकाशसंज्ञानि तेषामन्त आकाशो हकारः, तं हकार कर्णिकामध्ये । कथम्भूतम् ? 'नामसंयुतं' दष्टनामगर्भीकृतम् । 'दलेषु' बहिःस्थितचतुर्दलेषु । 'शेषभूतानि' क्षिप - स्वाहेति चतुबींजानि लिखेत् । 'मायया परिवेष्टितं' तत्पद्मोपरि होकारेण त्रिधा परिवेष्टितं लिखित्वा दष्टस्य गले बध्नीयात् ।अथवा चन्दनेन दष्टवक्षःस्थले एतद्यन्त्रं लिखेत् ।। इति रक्षाविधानम् ।। इदानीं स्तोभकरणमारभ्यते-- वह्निजलभूमिपवनव्योमाने दहपचद्वयं योज्यम् । स्तोभययुगलं स्तोमं मध्यमिकाचालनाद्भवति ॥७॥ 'वह्निः' कारः। 'जलं' पकारः। 'भूमिः' क्षिकारः । 'पवनः' स्वाकारः। 'व्योम' हकारः । 'अग्रे' एतेषां पञ्चबीजाक्षराणामग्रे। 'दहपचद्वय योज्यम्' दह दहेति पदद्वयं योज्यं, तदने पच पचेति पदद्वयं योजनीयम् । 'स्तोभययुगलं' स्तोभय स्तोभयेति पदद्वयम् । 'स्तोभं' अनेन मन्त्रोच्चारणाच्चाटनेन (?) दष्टावेशः। कथम ? 'मध्यमिकाचालनात्' मध्यमाङ्गल्याश्चालनाद् । 'भवति' जायते ॥ मन्त्रोद्धारः-- पक्षि स्वाहा दह दह पच पच स्तोभय स्तोभय ।। इति स्तोभनमन्त्रः ।। ॥ इति स्तोभन विधानम् ।। इदानीं विषस्तम्भनमुदीर्यते---- आद्यन्ते भूवीज मध्ये जलवह्निमारुतं योज्यम् । स्तम्भययुगलं स्तम्भो वामकराङ्गष्ठचालनतः ॥८॥ 'आद्यन्ते भूबीज' मन्त्रादौ मन्त्रान्ते पृथ्वीबीजम्-क्षि इति। 'मध्ये जलवह्निमारुतं योज्यं' मन्त्रमध्ये प * स्वेति बीजत्रयं योजनीयम् । 'स्तम्भययुगलं' तदने स्तम्भयेति पदद्वयम् । 'स्तम्भः' अनेन कथितमन्त्रोच्चारणेन विषप्रसरस्तम्भो भवति । कथम् ? 'वामकराङ्गुष्ठचालनतः' स्ववामकराङ्गुष्टचालनेन । १ त्रिमायापरिवेष्टितं इति ख पाठः । 'त्रिमायावेष्टितं शुभम्' इत्यपि पाठः।। For Private And Personal Use Only
SR No.020681
Book TitleBhairav Padmavati Kalp
Original Sutra AuthorN/A
AuthorK V Abhyankar, Sarabhai Manilal Nawab
PublisherSarabhai Manilal Nawab
Publication Year1937
Total Pages307
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy