________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
८/१५ ]
निमित्ताधिकारः ८ ।
४७
‘विन्यसेत्’। कम्? ‘इमं मन्त्रम्' वक्ष्यमाणमन्त्रम् | 'विनयं गजवशकरणं क्ष क्ष क्षूकारहेामान्तम्' कारं विनय इति सञ्ज्ञम्, गजवशकरणं - कोंकारम्, क्षांकारम् क्षींकारम्, क्षंकारम् 'होमान्तम्' स्वाहाशब्दान्तम् ॥ स्थानन्त्रयसंस्थापनमन्त्रोद्धारः – को क्ष क्ष क्षू स्वाहा । एतन्मन्त्रं स्थानन्त्रये विन्यसेत् ॥
प्रणवादिपञ्चशून्यैरभिमन्त्र्य कुमारिकाकुचस्थाने ।
अशितुं तयोश्च दद्याद् घृतेन सम्मिश्रितान् पृपान् ॥ ११ ॥
‘प्रणवःदिपञ्चशून्यैः’ शुकारादि हाँ हाँ हूँ हाँ हः इति पञ्चशून्यैः । 'अभिमन्त्र्य' मन्त्रयित्वा । क्व ? ‘कुमारिकाकुचस्थाने' कन्यास्तनयुगलस्थाने । 'तयो' द्वयोः कुमारिकयोः । 'च' पुनः । 'अशितुम्' भक्षयितुम् । 'दद्यात् ' दातव्यम् । कान् ? 'पूपान्' पोलिकाः । कथम्भूतान् ? 'घृतेन सम्मिश्रितान्' आज्ययुक्तान् ॥
आलक्तकाभिरञ्जितहस्ताङ्गुष्ठे निरीक्षयेद् रूपम् । करनिर्वर्तिततैलेनाङ्गुष्ठस्नानकरणेन ॥ १२ ॥
‘आलक्तकाभिरन्जितहस्ताङ्गुष्ठे’ मन्त्रिदक्षिणकराङ्गुष्ठे। 'निरीक्षयेत्' अवलोकयेत् । किम् ? 'रूपम्' प्रतिबिम्बम् । केन ? 'करनिर्वर्तिततैलेन' हस्ताभ्यां मर्दिततैलेन । कथम्भूतेन ? 'अङ्गुष्टस्नानकरणेन' मन्त्र्यङ्गुष्ठेन तैलाभ्यक्तेन अङ्गुष्ठनिमित्तमिदम् ॥
प्रणवः पिंगलयुगलं पण्णत्तिद्वितयं महाविद्येयम् ।
टान्तद्वयं च होमो दर्पणमन्त्रो जिनोद्दिष्टः ॥ १३ ॥
Acharya Shri Kailassagarsuri Gyanmandir
'प्रणवः' उकारः । ‘पिंगलयुगलं' पिंपल पिंगलेतिपदद्वयम् । 'पण्णत्तिद्वयं च' पण्णत्ति पण्णत्तीतिपदद्वयं च । 'महाविद्येयम्' इयं महाविया । 'टान्तद्वयं' ठकारद्वयम् । 'च' | 'होम:' स्वाहा । इति 'दर्पणमन्त्र: ' आदर्शमन्त्रः | 'जिनोद्दिष्टः' जिनेश्वरप्रणीतः ॥ मन्त्र: - पिंगल पिंगल पण्णत्ति पण्णत्ति १ ठठ स्वाहा ॥
जाप्यं भानुसहस्रैः सितपुष्पैश्चन्द्रकिरणसङ्काशैः ।
सिद्ध्यति दशांशहोमादादर्शनिमित्तमन्त्रोऽयम् ॥ १४ ॥
'जाप्यं' जपम्। 'भानुसहस्रैः' द्वादशसहस्रेः । कैः ? 'सितपुष्पैः' श्वेतप्रसूनैः । कथम्भूतैः ? 'चन्द्रकिरणसङ्काशैः ' चन्द्ररश्मिसन्निभैः। ‘सिद्ध्यति' सिद्धिं याति । केन ? 'दशांशहोमेन' द्वादश सहस्राणां दशांशहोमेन । 'आदर्शनिमित्तमन्त्रोऽयम्' अयं मन्त्रः दर्पणनिमित्तसाधनम् ॥
चितभस्मनैकविंशतिवारान् सम्म दर्पण पूर्वम् । शाल्यक्षतोपरि स्थितनवाम्बुपरिपूर्णनवकुम्भे ॥ १५ ॥
१ महाविद्ये ठः ठः इति ख पाठः ।
१ विमृशेच इति क पाठः ।
For Private And Personal Use Only