SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ७२६ ] वशीकरणयन्त्राधिकारः ७ | ४१ 'भ्रमयुगलम्' भ्रम भ्रम इतिपदद्वयम् । 'केशि भ्रम' केशि भ्रम केशि भ्रमेति पदद्वयम् । 'माते भ्रम' माते भ्रम माते भ्रमेति पदद्वयम् । 'विभ्रमं' विभ्रम विभ्रमेति पदद्वयम् । 'चः' समुच्चये । 'मुह्यपदम् ' मुह्य मुह्येति पदद्वयम् । 'मोह' मोहय मोहय इति पदद्वयम् । 'पूर्णैः' सम्पूर्णैः । 'स्वाहा' स्वाहेतिपदम् । 'मन्त्रोऽयम्' अयं मन्त्रः 'प्रणव पूर्वगतः ' उकारपूर्वकः ॥ भ्रम भ्रम केश भ्रम केशि भ्रम माते भ्रम माते भ्रम विश्रम विभ्रम मुल्य अस्य मन्त्रोद्धारः - मुह्य मोहय मोहय स्वाहा || एतेन लक्षमेकं भूमिमसम्प्रातसर्षपैर्जवा । क्षिप्ते गृहदेहल्यामकालनिद्रां जनः कुरुते ॥ २३ ॥ ‘एतेन’ कथितमन्त्रेण । ‘लक्षमेकम् ' एक लक्षम् । 'भूमिम सम्प्राप्तसर्वपै: ' भूम्यपतितसिद्धार्थैः । 'ज'त्वा' जपं कृत्वा । 'क्षिप्ते' निक्षिप्ते सति । क ? 'गृहदेहल्याम्' गृहोदुम्बरके । किं करोति ? 'अकालनिद्रां' आकस्मिक निद्राम् । 'जनः ' लोकः । 'कुरुते' कुर्यात् ॥ मृतविधवा ब्राह्मण्याः पादतलालक्तकेन परिलिखितम् । तद्वक्त्रपिहितवस्त्रे विधवारूपं निराभरणम् ॥ २४ ॥ Acharya Shri Kailassagarsuri Gyanmandir 'मृतविधवा' पञ्चत्व प्राप्तरण्डायाः कस्याः ? 'ब्राह्मण्याः ' द्विजकुलप्रसूतायाः । पादतलाल ककेन' तस्याः पादतलाल तकेन । 'परिलिखितं समन्ता लिखितम् । क्व ? 'तद्वऋपिहितवस्त्रे' तन्मृतरण्डामुखप्रच्छादितवसने। कम् ? 'विश्वारूपम् ' रण्डारूपम् | 'निराभरणम्' आभरणरहितम् ॥ प्रणवं विचे मोहे स्वाहान्तं सतलक्षजाप्येन । एकाकिनी निशायां सिद्ध्यति सा यक्षिणी रण्डा ॥ २५ ॥ ‘प्रणवं’कारम् । कथम्भूतम् ? 'विच्चे मोहे स्वाहान्तम् ' विच्चे मोहे स्वाहाशब्दान्तम् । 'सप्तलक्षजाप्येन' सप्तलक्षप्रमाणमेतन्मन्त्रजापेन । 'एकाकिनी' एकाकिनी भूत्वा । 'निशायां' रात्रौ । 'सिद्धयति' सिद्धिं प्राप्नोति । कासौ ? ' यक्षिणी रण्डा' सा रण्डा यक्षिणी ॥ मन्त्रः विच्चे मोहे स्वाहा || यत् साधकाभिलषितं तत् तस्मै वस्तु सा ददात्येव । क्षोभं प्रयान्ति रण्डाः सर्वा अपि भुवनवर्तिन्यः ॥ २६॥ 'यत् साधकाभिलषितम् ' यत् किञ्चित् साधकपुरुषस्य मनोवाञ्छितम् । 'तत्' तद्वस्तु 'तस्मै' तस्मै सावकाय । 'सा ददात्येव' सा यक्षिणी न केवलं वस्त्वेव ददाति, अपि तु 'क्षोभं प्रयान्ति' क्षोभं गच्छन्ति । का ? 'रण्डाः' विधवाः । 'सर्वा अपि भुवनवर्तिन्यः' समस्ता अपि भुवनाभ्यन्तरवर्तिन्यः ॥ १ निश्चितं इति ख पाठः । For Private And Personal Use Only
SR No.020681
Book TitleBhairav Padmavati Kalp
Original Sutra AuthorN/A
AuthorK V Abhyankar, Sarabhai Manilal Nawab
PublisherSarabhai Manilal Nawab
Publication Year1937
Total Pages307
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy