SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १७] सप्तमो वशीकरणयन्त्रपरिच्छेदः ७ । ३९ पत्रेषु ‘न्यसेत्’ विन्यसेत्। कथंभूतान् ? 'स्वाहान्तौंकारपूर्वकान्' स्वाहाशब्दान्तान् एवं 'द्रां द्रीं क्लीं ब्लूं सः स्वाहा' इत्यादिरूपान् । तद्वाह्ये' तत्पत्रबाह्ये 'मायया वेष्टयम्' हकारेण त्रिधा वेष्टयम् । 'क्राकारेण निरोधयेत्' कोकारेण निरोधनं कुर्यात् । Acharya Shri Kailassagarsuri Gyanmandir भूर्यपत्रे पटे वाऽपि विलिखेच हिमादिभिः । हाँ ह्रीँ क्ली ब्लूँ सकारान्त्यमन्त्रं क्षोभकरं जपेत् ॥ १३ ॥ 'भूर्यपत्रे' भूर्जदले 'पटे वा' वस्त्रे वा 'अपि' निश्चयेन 'विलिखेच' विशेषेण लिखेत् । कै: ? ‘हिमादिभिः’ कर्पूरादिसुगन्धद्रव्यैः । 'हाँ ह्रीं क्लीं ब्लूं सकारान्त्यमन्त्र' उ क्लौ ब्लूं सः इति मन्त्रम् 'क्षोभकर' जनक्षोभकरम् ' जपेत्' जपं कुर्यात् ॥ अष्टदलकमलमध्ये स्वनाम तत्त्वं दलेषु चित्तभवम् । पुनरप्यष्टदलाम्बुजमिभवशकरणं ततो लेख्यम् ॥ १४ ॥ ‘अष्टदलकमलमध्ये' अष्टदलाम्बुजमध्ये कर्णिकायाम् ' स्वनाम तत्त्वम्' स्वकीयनामान्वितं ह्रींकारम् । 'दलेषु चित्तभवम्' तदष्टदलेषु लकारम् । 'पुनरप्यष्टदलाम्बुजम् ' पुनरपि अष्टदलपद्मम् । 'ततः ' तदष्टदलेषु ‘इभवशकरणं' ककारः 'लेख्यं' लेखनीयः ॥ षोडशदलगतपद्मं क्लौंकारं तद्दलेषु सुरभिद्रव्यैः । क्लॉ क्लीँ क्यूँ क्लौकारैस्तद् यन्त्रं वेष्टयेत् परितः ॥ १५॥ ' षोडशदलपद्मम्' पूर्वोक्ताष्टपत्र बहिः प्रदेशे षोडशदलान्वितं पद्मं लिखेत् । 'क्लौंकारं तद्दलेषु' तत्षोडशदलेषु क्लौंकारं लिखेत्। कैः ? 'सुरभिद्रव्यैः' सुगन्धिद्रव्यैः । 'क्लां क्लीं क्लं क्लौंकारैः' क्लॉ क्लौं क्लं क्लौं इत्यक्षरचतुष्टयेन ‘तद् यन्त्रम् ' प्रालिखितयन्त्रम् 'वेष्टयेत्' वेष्टनं कुर्यात् । कथम् ? 'परितः समन्तात् ॥ तद्बाह्येऽर्कशशिभ्यां जपतः शून्यैश्च पञ्चभिर्नित्यम् । नागनरामरलोकः क्षुभ्यति वश्यत्वमायाति ॥ १६ ॥ ' तद्वाह्ये' तद्वेष्टनबहिः प्रदेशे 'अर्कशशिभ्याम्' आदित्यचन्द्राभ्यां वेष्टनीयम् । 'जपतः शून्यैश्व पञ्चभिर्नित्यम्' सर्वकालं हाँ ह्रीँ हूँ हाँ हः इति पश्चशन्यैः जपं कुर्वतः पुरुषस्य 'नागनरामरलोकः क्षुभ्यति' नागलोकः मनुष्यलोकः देवलोकः इति लोकत्रयं तस्य क्षोभं याति, 'वश्यत्वमायाति वशवर्तित्वमेति ॥ अष्टौ लघुपाषाणान् दिशासु परिजप्य निक्षिपेद् धीमान् । चौरारिरौद्रजीवादभयं सम्पद्यतेऽटव्याम् ॥ १७ ॥ 'अष्टौ लघुपाषाणान् ' अष्ट क्षुद्रपाषाणान् 'दिशासु' पूर्वादिदिशासु 'परिजप्य' प्रकर्षेण जपित्वा 'निक्षिपेत्' स्थापयेत् । कः ? 'धीमान्' बुद्धिमान् । 'चौरारिरौद्रजीवात्' तस्करशत्रुरौद्रजीवेभ्यः सकाशात् 'अभयं सम्पद्यते' निर्भयं भवति । क्व ? 'अटव्याम्' अरण्ये || For Private And Personal Use Only
SR No.020681
Book TitleBhairav Padmavati Kalp
Original Sutra AuthorN/A
AuthorK V Abhyankar, Sarabhai Manilal Nawab
PublisherSarabhai Manilal Nawab
Publication Year1937
Total Pages307
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy