SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७९] सप्तमो वशीकरणयन्त्रपरिच्छेदः ७। 'श्रीखण्डेन' मखाश्रयेण 'तत्' प्राक्कथितयन्त्रम् 'आलिख्य' लिखित्वा 'पाययेत्' आतुरं पाययेत् । तत् व लिखित्वा ? 'कांस्यभाजने' कांस्यनिर्मितपात्रे। कम् ? 'महादाहज्वरग्रस्तम्' तीतोष्णज्वरगृहीतम् । 'तद्' दाहज्वरम् 'क्षणेन' निमिषमात्रेण 'उपशाम्यति' उपशमं प्राप्नोति ।। मन्त्रोद्धारः-- क्ष्लयूँ है क्वी क्ष्वी हंसः असिआउसा स्वाहा । 'क्लेतत्त्वकूटेन्दुवृतं स्वनाम तबाह्यभागेऽष्टदलाब्जपत्रम् । पत्रेषु पद्मावरमूलमन्त्रं वेष्टयं तदाकर्षणपल्लवेन ॥६॥ 'क्लेतत्त्वक्टेन्दुवृतम्' 'क्ल' क्लेकारं, 'तत्त्वं' हौंकारम् , 'कट' क्षकारम् , 'इन्दुः' ठकारः, तैः 'वृतम्' एभिश्चतुबीजैरावेष्टितम् । किं तत् ? 'स्वनाम' स्वकीयनाम । 'तद्बाह्यभागे' तद्वीजाक्षरबहिःप्रदेशे। 'अष्टदलाब्जपत्रम्' अष्टदलकमलपत्रम् । 'पत्रेषु' तद्दलपत्रेषु 'पद्मावरमूलमन्त्रम्' पद्मावतीदेव्या विशिष्टमूलमन्त्रम् 'वेष्टयं तद्' तद् यन्त्रं वेष्टनीयम् । केन ? 'आकर्षणपल्लवेन' संवौषट् इति पल्लवेन । मन्त्रोद्धारः- ही है हस्कली पद्मे ! पद्मकटिनि ! नमः ।। यन्त्रं ततश्चार्द्धशशिप्रवेष्टयं विलिख्य यन्त्र फलके वटस्य । गोरोचनासंयुतकुङमाद्यैः साध्यस्य नामारुणचन्दनेन ॥७॥ 'यन्त्रम्' एतत् कथितयन्त्रम् 'ततः' तस्माल्लेखनानन्तरम् 'च:' समुच्चये, 'अर्द्धशशिप्रवेष्टयम्' अर्द्धचन्द्ररेखया वेष्टयम् । 'विलिख्य' विशेषेण लिखित्वा यन्त्रं' एतद् यन्त्रम | व? 'फलके' पट्टिकायाम् । कस्य? 'वटस्य' न्यग्रोधवृक्षस्य । कैः कृत्वा? 'गोरोचनासंयुतकुमाद्यः' गोरोचनान्वितकुङ्कमादिद्रव्यैः। 'साध्यस्य नामारुणचन्दनेन' साध्यमनुजनामान्वितं यन्त्रं रक्तचन्दनेन लेख्यम् ।। कृत्वा ततश्चोभयसम्पुटं च श्रीपार्श्वनाथस्य पुरो निवेश्य। सन्ध्यासु नित्यं करवीरपुष्पैर्भवेदवश्यं जपतः सुसाध्यम् ॥ ८॥ 'तत:' तस्मादनन्तरम् । 'चः' समुच्चये । 'उभयसम्पुटं च' साध्यसाधकयोलिखितयन्त्रसम्पुटम् 'कृत्वा' विरचय्य । 'श्रीपार्श्वनाथस्य' श्रीपार्श्वनाथतीर्थङ्करस्य 'पुरः' अग्रे 'निवेश्य' संस्थाप्य । कासु ? 'सन्ध्यासु' त्रिषु सन्ध्यासु। 'नित्यं' सर्वकालम् ‘जपतः' जाप्यं कुर्वतः। कैः ? 'करवीरपुष्पैः' रक्तकरवीरपुष्पैः । जपतः पुरुषस्य ‘अवश्यं' निश्चयेन 'सुसाध्यं' सम्यक् साध्यं 'भवेत् ' स्यात् ।। अन्त्यवर्गतृतीयतुर्यवकारतत्त्ववृताह्वयं हंसवर्णवृतं ततो द्विगुणीकृताष्टदलाम्बुजम् । तेषु षोडश सत्कलाः शिरसोनशून्यवृतं बहि यिया परिवेष्टितं प्रणवादिकादिभिरावृतम् ॥९॥ १ ले इति ख पाठः। For Private And Personal Use Only
SR No.020681
Book TitleBhairav Padmavati Kalp
Original Sutra AuthorN/A
AuthorK V Abhyankar, Sarabhai Manilal Nawab
PublisherSarabhai Manilal Nawab
Publication Year1937
Total Pages307
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy