SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सविवरणे भैरवपद्मावतीकल्पे [प्रलोकाः ३१४०सान्तं बिन्दूर्ध्वरेफ बहिरपि विलिखेदायताष्टाजपत्रं दिक्ष्वै श्री ही स्मरेशो गजवशकरणं हौ तथा ब्लै पुनy। बाह्ये हीमो नमोऽहं दिशि लिखितचतुर्बीजकं होमयुक्तं मुक्तिश्रीवल्लभोऽसौ भुवनमपि वशं जायते पूजयेद् यः ॥४०॥ 'सान्तम्' सकारस्यान्तं हकारम्। कथंभूतम् ! 'बिन्दुर्ध्वरेफम्' अनुस्वास्-ऊर्ध्वरेफान्वितम्। एवं है इति वीजं विलिखेत् । 'बहिरपि' हमक्षरबहिःप्रदेशे। 'विलिखेत्' विशेषेण लिखेत्। किम् ? 'आयताष्टाब्जपत्रम्' विस्तीर्णाष्टाम्भोजपत्रम् । 'दिक्षु' तत्पत्रप्राच्यादिचतुर्दिशासु । 'ऐ श्रीं ह्रीं स्मरेशः' पूर्वदले ऐ इति, दक्षिणदले श्री इति, पश्चिमदले ह्रीं इति, उत्तरदले क्लौं इति एवं लिखेत् । 'गजवशकरण हो तथा ब्लै पुनर्य' इतरविदिक्चतुर्दलेषु द्विपवशकरणं आग्नेयदले को इति, नैर्ऋत्यदले हौ इति। ' तथा' तेन प्रकारेण वायव्यदले ब्लै इति । 'पुनर्य' पश्चादीशानदले यु इति लिखेत्। 'बाह्ये ह्रीं' तद्यन्त्रबहिः ह्रींकारेण वेष्टयेत् । 'ॐ नमोऽहं दिशि लिखितचतुर्बीजकम्' ॐ नमोऽहमिति पदं प्राच्यादिचतुर्दिशासु लिखितं ऐ श्रीं ह्रीं क्ली इति चत्वारि बीजानि । 'होमयुक्तं' स्वाहाशब्दयुतम् । एवं ॐ नमोऽहं ऐ श्रीं ह्रीं क्लीं स्वाहेति मन्त्रः। 'मुक्तिश्रीवल्लभोऽसौ भुक्नमपि वशं जायते पूजयेद् यः' एतच्चिन्तामणिनामयन्त्रं यः पूजयेद् , असौ पुमान् मक्त्यङ्गनाप्रियो भवति । 'भवनपि' लोकोऽपि । 'वशं जायते' वशीभवति ।। इत्युभयभाषाकविशेखरश्रीमल्लिषेणसूरिविरचिते भैरवपद्मावतीकल्पे देव्याराधनविधिर्नाम तृतीयः परिच्छेदः ॥३॥ For Private And Personal Use Only
SR No.020681
Book TitleBhairav Padmavati Kalp
Original Sutra AuthorN/A
AuthorK V Abhyankar, Sarabhai Manilal Nawab
PublisherSarabhai Manilal Nawab
Publication Year1937
Total Pages307
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy