SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सविधरणे भैरवपद्मावतीकल्पे [प्रलोकाः ३।३१ब्रह्म माया च हैकारं व्योम क्लीकारमूर्धगम् । श्री च पद्मे ! नमो मन्त्रं प्राहुर्विद्यां षडक्षरीम् ॥३१॥ 'ब्रह्म' उकारः, 'माया' हीकारः, 'चः' समुच्चये, हैंकारं' हैमिति बीजम् , 'व्योम' हकारः, कथम्भूतं व्योम ? 'क्लीकारमूर्धगम्' क्लीकारोपरिस्थितम् , एवं हस्वलीमिति, 'श्री च' श्रीमिति बीजं च, 'पद्म' पो ! इति पदम् , नमः' नमः इति पदम् , मन्त्रं' इमं कथितं मन्त्रम् ,'विद्या षडक्षरीम्' षडक्षरीमिति विद्या प्राहुः' प्रकर्षण आहुः। मन्त्रोद्धारः-3 ही हूँ इस्ली श्री पद्मे । नमः ॥ इति षडक्षरमन्त्रः ॥३१॥ वाग्भवं चित्तनाथं च होकारं षान्तमूर्धगम् । बिन्दुद्वययुतं प्राहुर्विबुधारूयक्षरीमिमाम् ॥३२॥ __ 'वाग्भवं' ऐकारम् , चित्तनाथ' क्लीकारम् , 'चः' समुच्चये, 'होकारं' हौमिति अक्षरम् , कथम्भूतम् ? 'षान्तमूर्धगम्' षकारस्यान्तः सकारः तस्य मूर्धगं सकारोपरिस्थितम् , “बिन्दुद्वययुतम्' विसर्गसंयुतम् , एवं इसौः इति बीजम् , 'त्र्यक्षरीमिमाम्' इमां त्र्यक्षरीविद्यां, “विबुधाः' प्राज्ञाः, 'प्राहुः' प्रकर्षण आहुः ॥ ३२ ॥ मन्त्रोद्धारः- ऐ फ्ली सौः नमः ॥ इति त्र्यक्षरमन्त्रः॥ वर्णान्तः पार्थजिनो यो रेफस्तलगतः स धरणेन्द्रः। तुर्यस्वरः सबिन्दुः स भवेत् पद्मावतीसंज्ञः ॥३३॥ 'वर्णान्तः' हकारः, सहकारः 'पार्श्वजिनः' पार्श्वजिनसंज्ञो भवति । 'यो रेफ: तलगतः' यस्तलगतो रेफ: 'स धरणेन्द्रः' धरणेन्द्रसंज्ञो भवति । 'तुर्यस्वरः' चतुर्थस्वरः-ईकारः, 'सबिन्दुः' अनुस्वारयुतः ‘स भवेत् पद्मावतीसंज्ञः' स पद्मावतीदेवीसंज्ञो भवति । एवं ही इत्येकाक्षरी विद्या ॥ ३३ ॥ त्रिभुवनजनमोहकरी विद्ययं प्रणवपूर्वनमनान्ता। एकाक्षरीति संज्ञा जपतः फलदायिनी नित्यम् ॥३४॥ 'त्रिभुवनजनमोहकरी' त्रैलोक्यजनमोहकरी भवति 'विद्येयम्' इयं कथिता विद्या । कथम्भूता ? 'प्रणवपूर्वनमनान्ता' कारपूर्वनमःशब्दान्ता । किनामा ? 'एकाक्षरीतिसंज्ञा' एकाक्षरीनामधेया। 'जपतः फलदायिनी नित्यम्' सर्वकालं जाप्यं कुर्वतः फलदायिनी भवति ॥ ३४॥ मन्त्रः-ॐ ह्रीं नमः इत्येकाक्षरी ॥ इदानीं होमक्रम कथ्यते - तत्त्वावृतं नाम विलिख्य पत्रे तद्धोमकुण्डे निखनेत् त्रिकोणे। स्मरेषुभिः पञ्चभिरा भिवेष्टच बाह्ये पुनर्लोकपतिप्रवेष्टयम् ॥३५॥ १ कामराजं च इति ख पाठः । For Private And Personal Use Only
SR No.020681
Book TitleBhairav Padmavati Kalp
Original Sutra AuthorN/A
AuthorK V Abhyankar, Sarabhai Manilal Nawab
PublisherSarabhai Manilal Nawab
Publication Year1937
Total Pages307
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy