SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ८ सविवरणे भैरवपद्मावतीकल्पे [श्लोकाः २ १९ ' सिद्धं चेत्' सिद्धं मन्त्रं चेत् । 'कतिपयदिवसैः ' कियद्भिर्वासरैः । 'फलदं ' फलदायकं भवति । 'साध्यमपि दिनेर्बहुभिः' अपि ' - पश्चात् साध्यं मन्त्रं बहुभिर्दिनैः फलदं भवति । 'झटिति फलदं सुसिद्धं ' सुसिद्धं मन्त्रं झटिति शीघ्र फलदायकं भवति । 'प्राणार्थविनाशनः शत्रुः शत्रुर्मन्त्रं प्राणार्थविनाशकरो भवति ॥ १८ ॥ , आदावन्ते शत्रुर्यदि भवति तदा परित्यजेन्मन्त्रम् । स्थानत्रितये शत्रुर्मृत्युः स्यात् कार्यहानिर्वा ॥१९॥ " 'आदावन्ते शत्रुर्यदि भवति' मन्त्रस्यादौ मन्त्रान्ते यदि शत्रुर्भवति तदा परित्यजेन्मन्त्रम् ' मन्त्रं परिवर्जयेत् । ‘स्थानत्रितये शत्रुर्मृत्युः स्यात् ' आदिमध्यावसाने यदि शत्रुर्भवति मन्त्रस्य तदा मृत्युर्भव ' कार्यहानिर्वा' कार्यनाशो वा भवति ॥ १९ ॥ शत्रुर्भवति यदाऽऽदौ मध्ये सिद्धं तदन्तगं साध्यम् । कष्टेन भवति महता स्वल्पफलं चेति कथनीयम् ॥ २० ॥ Acharya Shri Kailassagarsuri Gyanmandir 'शत्रुः' इत्यादि । यदा आयगणने प्रथमतः शत्रुर्भवति, मन्त्रस्य मध्ये सिद्धं भवति । ' तदन्तगं साध्यं ' मन्त्रस्यान्तर्ग साध्यं चेत् । ' कष्टेन भवति महता' महता - अत्यन्तक्लेशेन जायते स्वल्पफलम् । चः समुच्चये । 'इति' अनेन प्रकारेण कथनीयम् ॥ २० ॥ अन्ते यदि भवति रिपुः प्रथमे मध्ये च सिद्धयुगपतनम् । कार्यं यदादिजातं तन्नश्यति सर्वमेवान्ते ॥ २१॥ 4 'अन्ते यदि भवति रिपुः' मन्त्रस्यान्ते यदि शत्रुर्भवति । 'प्रथमे मध्ये च सिद्धयुगपतनम् ' मन्त्रादौ मन्त्रमध्ये च सिद्धयुग्मपातो यदि भवति । 'कार्य यदादिजात' एवंविधमन्त्रे यत् पूर्व जातं कार्य अमितफलं ‘तन्नश्यति सर्वमेवान्ते' तत् कार्य जनितफलं सर्वमेवान्ते - अवसाने नाशं प्राप्नोति ॥ २१ ॥ सिद्धं सुसिद्धमथवा रिपुणाऽन्तरितं निरीक्ष्यते यत्र । दुःखापायप्रबलं भवतीति विवर्जयेत् कार्यम् ॥ २२ ॥ ‘अथवा’ अन्यप्रकारेण । सिद्धं सिद्धपदम् । सुसिद्धं सुसिद्धपदम् । 'रिपुणाऽन्तरितं' शत्रुपदान्तरितं यदि 'निरीक्ष्यते यत्र' यस्मिन् मन्त्रे निरीक्ष्यते - दृश्यते तदा 'दुःखापायप्रबलं' क्लेशानर्थप्रचुरं भवति 'इति' एवं ज्ञात्वा 'विवर्जयेन्मन्त्र' साधनकार्ये परिवर्जयेत् ॥ २२ ॥ इत्युभयभाषाकविशेखरश्रीमल्लिषेणसूरिविरचिते भैरवपद्मावतीकल्पे सकलीकरणं नाम द्वितीयः परिच्छेदः ॥ २ ॥ For Private And Personal Use Only
SR No.020681
Book TitleBhairav Padmavati Kalp
Original Sutra AuthorN/A
AuthorK V Abhyankar, Sarabhai Manilal Nawab
PublisherSarabhai Manilal Nawab
Publication Year1937
Total Pages307
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy