SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३६ श्रीलघुशान्तिस्तवः। [ परि ३१ यश्चैनं पठति सदा शृणोति भावयति वा यथायोगम् । स हि शान्तिपदं यायात् सूरिः श्रीमानदेवश्च ॥ १७॥ युग्मम् ।। विषविषधरेतिगाथोक्तानां पदानां भयस्यापि । च पुनः 'शान्त्यादिकरो भवतु शान्तिग्रहणात् शिव-खस्ति-तुष्टि-पुष्टीनामपि ग्रहणम् । आदिग्रहणात् ऋद्धिसौभाग्यादीनां ग्रहणम् । पूर्व बहुवीहिः ततः तत्पुरुषः । कथम्भूतः स्तवः ? 'इति' अमुना प्रकारेण 'पूर्वसूरिभिः'-पूर्वाचार्यैः यानि दर्शितानि मन्त्रपदानि-मन्त्राक्षराणि तैः विदर्भित:-गुम्फितः रचित इत्यर्थः ॥१६॥ __पुनर्यो नर एनं स्तवं 'सदा पठति' उद्घोषणेन 'शृणोति' अन्यसकाशाद्वा, अथवा 'भावयति' चित्तेनैव ध्यायति, योगं अनतिक्रम्य योग प्रति वा शक्तिमनतिक्रम्य कार्यमुद्दिश्य स नरः हि-निश्चितम् पदम्-स्थानं दुःखादि निवृत्तित्वम् । अथवा सर्वोपद्रवदुरिताद्यपगमैः अर्थात् मुक्तिः तल्लक्षणं पदं यायात्-लमेत, च-पुनः श्रीमानदेवसूरिरपि इत्यनेन स्तवविदर्भकेण निजं नाम दर्शितम् । 'शिवशान्तिपदं यायात्' केचिद् एवं पठन्ति-तत्र शिवशान्त्योः पूर्वोक्तार्थयोः पदं यायात् इत्यर्थः ॥१७॥ For Private And Personal Use Only
SR No.020681
Book TitleBhairav Padmavati Kalp
Original Sutra AuthorN/A
AuthorK V Abhyankar, Sarabhai Manilal Nawab
PublisherSarabhai Manilal Nawab
Publication Year1937
Total Pages307
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy