SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org परिशिष्ट ३१ श्रीमानदेवसूरिसूत्रितः श्रीलघुशान्तिस्तवः । शान्ति शान्तिनिशान्तं शान्तं शान्ताशिवं नमस्कृत्य । स्तोतुः शान्तिनिमित्तं मन्त्रपदैः शान्तये स्तौमि ॥ १ ॥ श्रीधर्मप्रमोदगणिविरचिता वृत्तिः । Acharya Shri Kailassagarsuri Gyanmandir नमः श्रीशान्तये । श्रीमन्तं बोधिदं नत्वा सदर्थज्ञानसिद्धये । कुर्वे शान्तिस्तवस्याहं व्याख्यामेतां सुबोधदाम् ॥ १॥ तत्र पूर्वमस्य स्तवस्योत्पत्तिः कथ्यते । सा चेयम् सूरयो मानदेवाख्या बृहद्गच्छे पुराऽभवन् । एकदाऽस्थुश्चतुर्मासीं नड्डूलनगरे च ते ॥१॥ तस्मिन्नेव हि समये शाकम्भरीपुरेऽजनि । श्रीसङ्घः शाकिनीमार्युपद्रवेणार्दितो भृशम् ||२॥ महातिशय सूरीन्द्र मानदेवान्तिके तदा । सङ्केनालोच्य मनुजाः प्रेषितास्तत्र ते गताः ॥३॥ विहिता तैः पुरः सूरेर्विशप्तिर्विनयान्वितैः । सङ्घोपद्रवविच्छित्यै कृत्वाऽयं प्रेषितः स्तवः ॥४॥ पद्मासुजयाविजयापराजितादेव ताप्तसान्निध्यैः । श्रीमानदेव गुरुभिर्जेनमतोत्साहकरणपरैः ॥५॥ पठनादेतस्य ततः स्वयमन्यसमीपतश्च वा श्रवणात् । एतदभिमन्त्रिताम्भोबिन्दुवितरणाद् गता मारी ॥६॥ श्रीसङ्घस्य समुत्पन्ना शान्तिर्दुःखविनाशिनी । एतत्स्तवोत्पत्तिरियमेवं गुरुमुखाच्छ्रुता ॥७॥ उक्तं च तद्गच्छीय श्रीगुरूणामवदाते न मूलनाम नगरे कृतमेघकालैः शाकम्भरीपुरसमागतसङ्घवाचा । शान्तिस्तवः प्रबलमारिभयापहारी यैर्निर्ममे सुविहितक्रममार्गदीपैः ॥ अथ सूत्रं प्रारभ्यते - ' शान्ति शान्तिनिशान्तं. ' व्याख्या For Private And Personal Use Only
SR No.020681
Book TitleBhairav Padmavati Kalp
Original Sutra AuthorN/A
AuthorK V Abhyankar, Sarabhai Manilal Nawab
PublisherSarabhai Manilal Nawab
Publication Year1937
Total Pages307
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy