SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥, ही श्री पार्श्वनाथाय नमः ॥ कविशेखरश्रीमल्लिषेणमूरिविरचितः भैरवपद्मावतीकल्पः। श्रीबन्धुषेणप्रणीतविवरणोपेतः । प्रथमो मन्त्रिलक्षणाधिकारः श्रीमच्चातुर्णिकायामरखचरवधूनृत्यसङ्गीतकीर्तिव्याप्ताशामण्डलं मण्डितसुरपटहाद्यष्टसत्प्रातिहार्यम् । नत्वा श्रीपार्श्वनाथ जितकमठकृतोद्दण्डघोरोपसर्ग पद्मावत्या हि कल्पप्रवरविवरणं वक्ष्यते बन्धुषेणैः ॥ कमठोपसर्गदलनं त्रिभुवननाथं प्रणम्य पार्श्वजिनम् । वक्ष्येऽभीष्टफलप्रद-भैरवपद्मावतीकल्पम् ॥१॥ 'कमठोपसर्गदलनं' कमठेन कृतो य उपसर्गः तं दलयतीति कमटोपसर्गदलनः तं कमठोपसर्गदलनम् । पुनः कथम्भूतम् ? 'त्रिभुवननाथम् ' त्रिलोकाधीश्वरम् । कम् ? 'पार्श्वजिनम्' श्रीपार्श्वजिनेश्वरम् । किं कृत्वा ? 'प्रणम्य' प्रकर्षेण नमस्कृत्य, 'वक्ष्ये' प्रतिपादयिष्ये । कम् ? 'भैरवपद्मावतीकल्पम्' भैरवी चासौ पद्मावती च भैरवपद्मावती, तस्याः कल्पः भैरवपद्मावतीकल्पः, तं भैरवपद्मावतीकल्पम् । कथम्भूतम् ? 'अभीष्टफलप्रदम्' अभिलषितं फलं प्रददातीति अभीष्टफलप्रदः तं अभीष्टफलप्रदं वक्ष्ये इति सम्बन्धः ॥ १॥ पाशफलवरदगजवशकरणकरा पद्मविष्टरा पद्मा। सा मां रक्षतु देवी 'त्रिलोचना रक्तपुष्पाभा ॥२॥ 'पाशफलवरदगजवशकरणकरा' पाशश्च फलं च वरदश्च गजवशकरणं च पाशफलवरदगजवशकरणानि, तानि वामोर्ध्वकरादिक्रमेण विद्यन्ते यस्याः सा पाशफलवरदगजवशकरणकरा | पुनः कथम्भूता? 'पद्मविष्टरा' पद्ममेव विष्टरं-आसनं यस्याः सा पद्मविष्टरा। पुनः कथम्भूता? 'त्रिलोचना' त्रीणि लोचनानि विद्यन्ते यस्याः सा त्रिलोचना । पुनः कथम्भूता? 'रक्तपुष्पाभा' रक्तपुष्पवद् आभा-दीप्तिर्यस्याः सा रक्तपुष्पाभा । का सा ? 'पद्मा' पद्मावती नाम । 'देवी' देवता । 'मां' प्रन्थकर्तारं श्रीमल्लिषेणाचार्य 'रक्षतु' पातु ॥२॥ तोतला त्वरिता नित्या त्रिपुरा कामसाधिनी । देव्या नामानि पद्मायास्तथा त्रिपुरभैरवी ॥३॥ तोतलादीनि त्रिपुरभैरवीपर्यन्तानि पद्मावतीदेव्याः पर्यायनामानि भवन्ति-जायन्ते ॥३॥ १ 'रक्ताभा लोचनत्रितया' इति ख पाठः For Private And Personal Use Only
SR No.020681
Book TitleBhairav Padmavati Kalp
Original Sutra AuthorN/A
AuthorK V Abhyankar, Sarabhai Manilal Nawab
PublisherSarabhai Manilal Nawab
Publication Year1937
Total Pages307
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy