SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीक्रेश्वरीस्तोत्रम् । [परि० २२ भृङ्गीवत्सदृशां सुखं त्वसदृशं संप्रार्थयन्तो जना स्ते स्युर्ध्वस्तविपत्तयः सुमतयः स्पष्टं जितारातयः ॥५॥ श्रीचक्रेश्वरि नित्यमेव भवतीनामाऽपि ये सादरं । सन्तः सत्यशमाश्रिताः प्रतिपदं सम्यक् स्मरन्ति स्फुरत् ॥ तेषां किं दुरितानि यान्ति निकटे नायाति किं श्रीहे । ___ नोपैति द्विषतां गणोऽपि विलयं नाऽभीष्टसिद्धिर्भवेत् ॥६॥ श्रीचक्रेश्वरि ये भवन्ति भवतीपादारविन्दाश्रिता स्ते भृङ्गा इव कामितार्थमधुनः पात्रं सदैवाङ्गिनः । जायन्ते जगति प्रतीतिभवनं भव्याः स्फुरत्कीर्त्तय स्तेषां क्वापि कदापि सा भवति नो दारिद्रथमुद्रा गृहे ॥७॥ श्रीचक्रेश्वरि यः स्तवं तव करोत्युच्चैः स किं मानवः कस्मादन्यजनाच्च याचत इह क्लेशैविमुक्ताशयः । कासश्वासशिरोगलग्रहकटीवातातिसारज्वर स्रोतोनेत्रगतामयैरपि न स श्रेयानिह प्रार्थते ॥८॥ श्रीचक्रेश्वरि शासनं जिनपतेस्तदक्षसि त्वं मदा ये केचिन्जिनभाषितान्यवितथान्युच्चैः प्रजल्पन्ति च । भव्यानां पुरतो हितानि कुरुषे तेषां तु तुष्टिं सदा क्षुद्रोपद्रवविद्रवं प्रतिपदं कृत्वा कृतान्तादपि ॥९॥ श्रीचक्रेश्वरि विश्वविस्मयकरी त्वं कल्पवृक्षोपमा धत्सेऽभीष्टफलानि वस्तुनिकृति दत्से विना संशयं । तेन त्वं विनुता मयाऽपि भवती मत्वेति मन्निश्चयं कुर्याः श्रीजिनदत्तभक्तिषु मनो मे सर्वदा सर्वथा ॥१०॥ इति श्रीचक्रेश्वरीस्तोत्रं संपूर्णम For Private And Personal Use Only
SR No.020681
Book TitleBhairav Padmavati Kalp
Original Sutra AuthorN/A
AuthorK V Abhyankar, Sarabhai Manilal Nawab
PublisherSarabhai Manilal Nawab
Publication Year1937
Total Pages307
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy