SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सरस्वतीमन्त्रकल्पः • [परि० ११ बहिर्वन्हिपुटं कोष्ठेप्वाँ जम्भे ! होममालिखेत् ॥३२॥ मोहापि च तथा ग्रान्तब्राह्मब्लँकारमास्थितम् । ॐ ब्लैं धात्रे वषट् वेष्टयान्तर्वाह्ये क्षितिमण्डलम् ॥३३॥ फलके भूर्यपत्रे वा लिखित्वा कुङ्कमादिभिः । पूजयेद् यः सदा यन्त्रं सर्व तस्य वशं जगत् ॥३४॥ वश्ययन्त्रम् ॥ मान्तं नामयुतं द्विरेफसहितं बाह्ये कलावेष्टितं ___तद्बाह्येऽग्निमरुत्परं विलिखितं ताम्बूलपत्रोदरे । लेखिन्यान्यमृताक्षकणकभुवार्कक्षीरराजीप्लुतं तप्तं दीपशिखाग्निना त्रिदिवसे रम्भामपीहानयेत् ॥३५॥ रेफद्वयेन सहितं लिख मान्तयुग्मं षष्ठस्वरस्वरचतुर्दशबिन्दुयुक्तम् । बाह्ये त्रिवह्निपुरमालिख चैतदन्तः पाशत्रिमूर्तिगजवश्यकरैश्च वेष्टयम् ॥३६॥ पुरं हिरण्यरेतसो विलिख्य तद्वहिः पुनः । करोतु मन्त्रवेष्टनं ततोऽग्निवायुमण्डलम् ॥३७॥ तद्यथा ॐ ओं ह्रीं क्र म्ल्व्यंग्यू जम्भे ! मोहे ! रररर घे घे सर्वाङ्गं दह दह देवदत्ताया हृदयं मम वश्यमानय ह्रीं यं वौषट् ॥ तं ताम्बूलरसेन हेमगरलब्रह्मादिभिः संयुजा प्रेतावासनकर्परैः प्रविलिखेत् ताम्रस्य पत्रेऽथवा । अङ्गारैः खदिरोद्भवैः प्रतिदिनं सन्ध्यासु सन्तापयेत् सप्ताहात् बनितां मनोऽभिलषितां मन्त्री हठादानयेत् ॥३८॥ संलिख्याष्टदलाञ्जमध्यगगनं कामाधिपेनावृतं तत्पत्रेषु तदक्षरं प्रविलिखेद् पत्राग्रतोऽग्न्यक्षरम् । ब्लें पत्रान्तरपूरितं वलयित मन्त्रेण वामादिना द्रां द्रीं ब्लू स्मरवीजहोमसहितेनैतजगत्क्षोभणम् ॥३९॥ जाप्यः सहस्रदशकं सुभगायोनावलक्तकं धृत्वा । विद्या नवाक्षरीया तयापसव्येन हस्तेन ॥४०॥ ॐ ह्रीं आँ क्रौं ह्रीं क्षी ह्रीं फैली ब्लू द्रां द्रीं ॐ कामिनी रञ्जय होममन्त्रं यस्या लिखेच्चात्मकरेऽपसव्ये । सन्दर्शयेत् सा स्मरबाणभिन्नाऽद्भुतं भवत्यत्र किमस्ति चित्रम् ॥४१॥ विनयं चले चलचित्ते रतौ मुञ्चयुग्मं होमम् । द्रावयत्यबलां बलाल्लक्षेणैकेन जाप्येन ॥४२॥ For Private And Personal Use Only
SR No.020681
Book TitleBhairav Padmavati Kalp
Original Sutra AuthorN/A
AuthorK V Abhyankar, Sarabhai Manilal Nawab
PublisherSarabhai Manilal Nawab
Publication Year1937
Total Pages307
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy