SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सरस्वतीमन्त्रकल्पः [परि० ११ ॐ अमृते ! अमृतोद्भवे ! अमृतवर्षिणि ! अमृतं श्रावय श्रावय सं सं ह्रीं ह्रीं क्ली क्ली ब्लू ब्लू द्रां द्रां द्रीं द्रीं द्रं , द्रावय द्रावय स्वाहा। स्नानमन्त्रः । विनयमहा । ॐ ह्रीं पद्मयशसे योगपीठाय नमः । पीठस्थापनमन्त्रः । पट्टकेऽष्टदलाम्भोजं श्रीखण्डेन सुगन्धिना । जातिकास्वर्णलेखिन्या दूर्वादर्भेण वा लिखेत् ॥९॥ ॐकारपूर्वाणि नमोऽन्तगानि शरीरविन्यासकृताक्षराणि । प्रत्येकतोऽष्टौ च यथाक्रमेण देयानि तान्यष्टसु पत्रकेषु ॥१०॥ ब्रह्महोमनमःशब्दं मध्येकणिकमालिखेत् । कं कः प्रभृतिभिषेणैर्वेष्टयेत् तन्निरन्तरम् ॥११॥ कं कः, चं चः, टं टः, तं तः, पं पः, यं यः, रं रः, लं लः, वं वः, शं शः, षः, सं सः, हं हः, लं लः, क्षं क्षः, खं खः, छं छः, ठं ठः, थं थः, फं फः, गं गः, ज जः, डं डः, दं दः, बंबा, घं घः, झं झः, ढं ढः, घं घः, भं भः ङ ङः, अं अः, णं णः, नं नः, मं मः, एतानि केसराक्षराणि । बाह्ये त्रिर्मायया वेष्ट्य कुम्भकेनाम्बुजोपरि । प्रतिष्ठापनमन्त्रेण स्थापयेत् तां सरस्वतीम् ॥१२॥ * अमले ! विमले ! सर्वज्ञे ! विभावरि ! वागीश्वरि । ज्वलदीधिति ! स्वाहा प्रतिष्ठापनमन्त्रः॥ अर्चयेत् परया भक्त्या गन्धपुष्पाक्षतादिभिः । विनयादिनमोऽन्तेन मन्त्रेण श्रीसरस्वतीम् ॥१३॥ ॐ सरस्वती नमः । विनयं मायाहरिवल्लभाक्षरं तत्पुरो वदद्वितयम् । ___ वाग्वादिनी च होमं वागीशा मूलमन्त्रोऽयम् ॥१४॥ ॐ ह्रीं श्री वद वद वाग्वादिनी स्वाहा। मूलमन्त्रः। यो जपेजातिकापुष्पैर्भानुसङ्ख्यसहस्रकैः ।। दशांशहोमसंयुक्तं स स्थाद् वागीश्वरीसमः ॥१५॥ महिषाक्षगुग्गुलेन प्रतिनिर्मितचणकमानसद्गुटिकाः । होमस्त्रिमधुरयुक्तैर्वरदाऽत्र सरस्वती भवति ॥१६॥ देहशिरोदग्नासासर्वमुखाननसुकण्ठहनाभि । पादेषु मूलमन्त्रबीजद्वयवर्जितं ध्यायेत् ॥१७॥ श्वेताम्बरां चतुर्भुजां सरोजविष्टरस्थिताम् । सरस्वती वरप्रदामहर्निशं नमाम्यहम् ॥१८॥ साडयभौतिकचार्वाकमीमांसकदिगम्बराः । सौगतास्तेऽपि देवि! त्वां ध्यायन्ति शानहेतवे ॥१९॥ For Private And Personal Use Only
SR No.020681
Book TitleBhairav Padmavati Kalp
Original Sutra AuthorN/A
AuthorK V Abhyankar, Sarabhai Manilal Nawab
PublisherSarabhai Manilal Nawab
Publication Year1937
Total Pages307
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy