SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'नच' रत्नमालिका विषयितानिरूपकतावच्छेदको यो धर्मस्तदवच्छिन्नविषयताशून्यत्वस्य धर्मविशिष्टत्वपर्यवसितस्य प्रमायां विवक्षणेनोक्तज्ञानव्यावृत्तेः। वैशिष्ट्यं खावच्छिन्नविशेष्यताकत्व-स्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्वोभयसंवन्धेन । प्रतियोगितावच्छेदकता च स्वविशिष्टरूपावच्छिन्नविषयताकत्वसम्बन्धावच्छिन्ना । वैशिष्ट्यं स्वविशिष्टप्रतीतिविषयतावच्छेदकत्व-स्वावच्छिन्नविशेष्यकसाध्यवत्ताशानसामान्यप्रतिबन्धकतावृत्तिभेदप्रतियोगितावच्छेदकत्वोभयसम्बन्धेन । प्रतीतौ स्ववैशिष्ट्यं स्वावच्छिन्नाविशेष्यतानिरूपितहेतुसमानाधिकरणसाध्याभावप्रकारताकत्वसम्बन्धावच्छिन्नखनिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्त्वसम्बन्धेन। भेदप्रतियोगितावच्छेदकता स्वावच्छिन्नविषयकनिश्चयत्वसमानाधिकरणभेदप्रतियोगितावच्छेदकत्वसम्बन्धावच्छिन्नेति । नूतनालोकः नित्यादिज्ञानाव्यावृतेश्चाह-धर्मविशिष्टत्वपर्यवसितस्येति । अत्र प्रथमसम्बन्धनिवेशाद् ह्रदो वह्नयभाववानिति ज्ञानस्य द्वितीयसम्बन्धेन जलत्वरूपधर्मविशिष्टत्वेऽपि न क्षतिः । सद्धेतुस्थले हेतुमद्वृत्तिधर्मावच्छिन्नविशेष्यकसाध्याभावप्रमायाः स्वविशिष्टरूपावच्छिन्नविषयताकत्वस्य पर्वतत्वादिन्यधिकरणसम्बन्धत्वेन लक्षणाघटकत्वेऽपि न क्षतिः। विपक्षविशेष्यकव्यधिकरणधर्मावच्छिन्नप्रतियोगिताकसाध्याभावप्रमामादायैव लक्षणसमन्वयसम्भवात् । यद्वा स्वनिष्टप्रतियोगिताकात्यन्ताभाववत्त्वस्यैव द्वितीयसम्बन्धत्वं विवक्ष्यते। तथा च हेतुमद्विशेष्यकसाध्याभावप्रमाया अपि लक्षणघटकत्वनिर्वाहः। स्वविशिष्टप्रतीतिविषयतावच्छेदकत्वोपादानाद् धूमाभाववदयोगोलकत्वस्य नायोगोलकत्ववैशिष्टयप्रसक्तिः, तत्र स्वावच्छिन्नविशेष्यतानिरूपितहेतुसमानाधिकरणसाध्याभावप्रकारताकत्वस्थाने स्वावच्छिन्नविशेष्यताकत्वमात्रनिवेशे वह्नयभाववद्धदत्वस्य स्वावच्छिन्नविशेष्यताशून्यप्रतीतिविषयतावच्छेदकत्वाभावात्तादृशहदवृत्त्यभावप्रतियोगिवह्नित्वा . आलोकप्रकाशः हृदो वह्नयभाववानित्यादिज्ञानाब्यावृत्तश्चेति । इदानी प्रयोजनाभावेन हेतुमद्विशेष्यकत्वादेरनिवेशादिति भावः । यद्यपि यो यो धर्म इति वीप्साकरणे न तादृशज्ञानाव्यावृत्तिः, तथापि गौरवं बोध्यम् । यदि च यत्रैक एव विपक्षः, तद्विशेष्यकञ्च व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकसाध्याभावप्रमात्मकं ज्ञानं न जातं तत्राव्याप्तिरित्युच्यते, तदाप्याह-यद्वेति । तथा च धूमा For Private And Personal Use Only
SR No.020673
Book TitleNa Cha Ratnamalika
Original Sutra AuthorN/A
AuthorSastra Sharma, Surati Narayanmani Tripathi
PublisherVaranaseya Sanskrit Vishvavidyalay
Publication Year
Total Pages215
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy