________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
'न' रत्नमालिका करणताविशिष्टपर्याप्तत्वस्थाने उक्तोभयसम्बन्धावच्छिन्नाधिकरणताव्याप्यत्वमधिकरणतायां देयमिति सर्व सुस्थम् ।।
अथैवमपि वह्निमान् धूमादित्यादावव्याप्तिः; हेत्वधिकरणपर्वतादौ वह्नित्वाधवच्छिन्नप्रतियोगिताकवह्नयभावस्य कालिकसम्बन्धेन वृत्तितया लक्षणघटकत्वात् । वरूपसम्बन्धेन तद्विवक्षणे तु घटत्वाभाववान् द्रव्यत्वादित्यादावन्याप्तिः; तत्र घटत्वात्मकसाध्याभावस्य स्वरूपसम्बन्धेनावृत्तेः ।
* न च साध्यवचाग्रहविरोधितानियामकखनिष्ठप्रकारतावच्छेदकसम्बन्धेन वृत्तित्वविवक्षणान्न दोषः, घटत्वाभावादिसाध्यके समवायस्य तादृश
नूतनालोकः व्यक्तिरिति सिद्धान्तात् । न च तद्वपक्तित्वस्य तद्वपक्तिरूपत्वे तस्य स्वरूपतो. भानासम्भव इति वाच्यम् ; विषयतानन्त्यभिया भावभिन्नत्वरूपायाः सत्ताभावव्यक्तेरिवास्यापि स्वरूपतो भानाङ्गीकारात्।
साध्यक्त्ताग्रहविरोधितानियामकेति । साध्यताघटकधर्मसम्बन्धावच्छिन्नप्रकारताघटितधर्मावच्छिन्नप्रतिवध्यतानिरूपितप्रतिबन्धकतावच्छेदकेत्यर्थः । तेन कालिकसम्बन्धावच्छिन्नप्रतियोगिताकात्मत्वाभाववानात्मत्वादित्यादी समवायावच्छिन्नात्मत्वाभावत्वेन साध्यवत्ताबुद्धिमादाय समवायस्य तथात्वेऽपि न क्षतिः। एवं समवाय
आलोकप्रकाशः प्रकारतायां साध्यताघटकधर्मावच्छिन्नखनिवेशफलमाह व्याख्यायाम्-तेन कालिकेस्यादि। साध्यताघटकसम्बन्धावच्छिन्नत्वनिवेशनफलमाह-एवमिति । न च प्रकारतायाः सम्बन्धावच्छिन्नत्वे मानाभावः, नहि प्रकारतायां विशेष्यतायां वा तत् कल्ण्यत इत्यत्र विनिगमकाभावः शङ्कयः, सर्व समवायेन घटावृत्ति इत्यादि बुद्धि प्रति तत्प्रकारतामनन्तर्भाव्य समवायावच्छिन्नघटत्वावच्छिन्नविशेष्यताशालिनिश्चयत्वेनैव रूपवान् घट इत्यादिनिश्चयानां प्रतिबन्धकत्वस्य लाघवेन कल्पनीयतया विनिगमकसत्त्वादिति वाच्यम् , घटोऽवृत्तिरिति बुद्धि प्रति घटवत्तानिश्चयस्य लाघवेन विशेष्यतामनन्तर्भाव्य घटवानिति निर्धर्मितावच्छेदककनिश्चयसाधारणघटत्वावच्छिन्नप्रकारताशालिनिश्चयत्वेनेव प्रतिबन्धकत्वस्य कल्पनीयतया प्रकारतायामपि तसिद्धेः । यत्ववच्छेदकावच्छेदेन वयभावाद्यवगाहिनो हृदो वह्नयभाववानित्यादिनिश्चयस्य लाघवेन विशेष्यतामनन्तर्भाव्य ह्रदत्वक्यापकत्वविशिष्टस्वरूपसम्बन्धावच्छिन्नवह्नयभावत्वाद्यवच्छिन्नप्रकारताशालिनिश्चयत्वेनेव प्रतिबन्धकत्वं. कल्पनीयमिति न विनिगमनाविरहप्रसक्तिरिति तन्न; संसर्गाशे धर्मितावच्छेदकव्यापकत्वातिरिक्तभानस्याप्रामाणिकतया तथाविधनिश्यस्य व्यापकत्वघटकाधिकरणो
For Private And Personal Use Only