SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org नूतनालोकढीका तस्प्रकाशटिप्पण्योपबृंहिता नूतमालोकः आलोकप्रकाशः Acharya Shri Kailassagarsuri Gyanmandir त्वादिव्यावृत्तिः । एकमात्रवृत्तिधर्माणां पर्याप्त्याख्यसम्बन्धविशेषाङ्गीकारे प्रमाणाभावेन तादृशधर्माणां तदनवच्छेदकतयैकमात्रवृत्त्यधिकरणतायाः संग्रहध । अत एव “पर्याप्तिश्रायमेको घटः, इमौ द्वावित्यादि प्रतीतिसाक्षिकस्वरूपसम्बन्धविशेषः” इति दीधिति ५७ हेतोः स्वसमानकालीन संयोगसम्बन्धेन हृदादिनिष्टसाध्याभावाधिकरणतावच्छेदकतया तदव्यावृत्तिः । स्वसमानकालीनसंयोगस्यापि वृत्त्यनियामक धूमकालसंयोगस्येव संयोगत्वेन हेतुतावच्छेदकसम्बन्धत्वात् । नहि धूमकाल संयोगस्य तद्विप्रतिपन्नम्, "येन सम्बन्धेन हेतुस्तेनैव सम्बन्धेन तदधिकरणत्वं बोध्यम्” इति दीधितिपङ्क्तिव्याख्यायां तस्य तथात्वाभिधानात् । हेत्वधिकरणत्वविवक्षणे तु उक्तसम्बन्धस्य वृत्य नियामकता तदवच्छिन्नाधिकणत्वाप्रसिद्धया तद्वयावृत्तिः । एवं हेतुमत्कालीनहृदत्वावच्छिन्नाधिकरणतायाः कोटिप्रविष्टानामवच्छेदकत्वपक्षे हेत्ववच्छिन्नत्वेन तदव्यावृत्तिश्च । गुणवद्भिन्नः आग्रक्षणावच्छिन्नत्वादित्यत्र साध्याभावस्याद्यक्षणावच्छिन्नाधिकरणताकत्वाभावेन लक्षणाघटकतयाऽतिव्याप्त्यापत्तिश्चेति हेत्ववच्छिन्नत्वघटितपरिष्कारो साधीयानित्याशयः । उभय वृत्तिधर्ममात्रस्येति । अन्यासज्यवृत्तिघटत्वादेरपि पर्याप्त्यनुयोगितावच्छेदकत्वमवच्छेदकत्वनिरुक्तौ स्पष्टमभिहितम् । एकमात्रवृत्तिधर्माणामिति । द्वित्वादिपर्याप्तिन्यूनवृत्तितया तत्पर्याप्त्यनवच्छेदकत्वादिति शेषः । न्यूनवृत्तेरपि तदवच्छेदकत्वे कपोतशुकसारिकादिसाधारणसमुदायत्वस्यापि कपोतत्वावच्छिन्नपर्याप्तिकत्वापत्त्या तादृशसमुदायत्वाद्यवच्छिन्न तात्पर्येणापि कापोतादिव्यवहारप्रसङ्गः । For Private And Personal Use Only न च तर्हि घटत्वादेरतिप्रसक्ततया कथं द्वित्वादिपर्याप्त्यवच्छेदकत्वमिति शङ्कयम् ? पर्याप्त्यवच्छेदकत्वेऽनतिप्रसक्तत्वस्यातन्त्रत्वात् । अन्यथा आकाशावितिवद् घटावियपि न स्यात् । न स्याच्च कपोतशतादावपि कपोतादिव्यवहारः । स्पष्टं चेदं व्युत्पत्तिवादे तद्धितार्थविचारावसरे इति बोध्यम् । प्रमाणाभावेनेति । न च "अयमेको घट इत्यनेनाऽव्यासज्यवृत्तिघटत्वेकत्वादिना प्रत्येकमेव पर्याप्तिरिति दर्शितम् । इमौ द्वाविति प्रतीतिकथनेन व्यासज्यवृत्तिद्वित्वादीनां न प्रत्येकं पर्याप्तिः । तथा सत्ययमेको द्वाविति प्रतीत्यापत्तिः" इति भङ्काचार्यव्याख्यानमेव प्रमाणमिति वाच्यम्; तस्य यथाश्रुताभिप्रायकत्वात् । अत एवोत्तरत्र तैरेव "अत्राहु:" इत्यादिना अभ्यासज्यवृत्तिधर्माणां पर्याप्त्याख्यसम्बन्व एवाप्रामाणिक इति स्पष्टमुक्तम् । भत एवेति । एकमात्रवृत्तिधर्माणां पर्याप्त्यनवच्छेदकत्वादेवेत्यर्थः । सङ्गच्छत इत्यचान्वयः । दीधितिपङ् क्तिमिति । इयक्ष पडक्तिरवच्छेदकत्वनिरुकिया। उपादायेति । प्रतीकतथा
SR No.020673
Book TitleNa Cha Ratnamalika
Original Sutra AuthorN/A
AuthorSastra Sharma, Surati Narayanmani Tripathi
PublisherVaranaseya Sanskrit Vishvavidyalay
Publication Year
Total Pages215
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy