SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ५० 'न च' रत्नमालिका च. स्वावच्छेदकता विशिष्टत्वसम्बन्धेन, वैशिष्ट्यं सामानाधिकरण्य- स्वावच्छेदक Acharya Shri Kailassagarsuri Gyanmandir सम्बन्धावच्छिन्नत्वोभयसम्बन्धेन । ( १९ ) न च तादात्म्येन हेतुतास्थले हेतुतावच्छेदकसम्बन्धावच्छिन्नाधेयत्वाप्रसिद्धया तेन सम्बन्धेन हेतुसम्बन्धित्वमेव विवक्षणीयम् । नूतनालोकः हेतुत्वेऽव्याप्तेरुक्त परिष्कारस्यावश्यकत्वात् । यतस्तत्र हेतुतावच्छेदकता घटकसम्बन्धः स्वरूपं कालिकश्च । तत्र स्वरूपसम्बन्धमुपादाय तेन सम्बन्धेन द्रव्यत्वादौ प्रसिद्धहेतुतावच्छेदकता पर्याप्त्यधिकरणधर्मवत्त्वावच्छिन्नभेदः सर्वेष्वेवानित्येषु सुलभः। एवं कालिकसम्बन्धमुपादाय तेन सम्बन्धेन संयोगादौ प्रसिद्धहेतुतावच्छेदकतापर्याप्त्यधिकरणधर्मवत्त्वावच्छिन्नभेदः सर्वेष्वेव नित्येषु प्रसिद्ध इत्यधिकरणतामात्रस्यैव हेतुतावच्छेदकता पर्याप्त्यधिकरण धर्मनिष्ठप्रतियोगिता कभेदवन्निष्ठाधेयतानिरूपितत्वेन तदनिरूपिताधिकरणत्वा प्रसिद्धेरिति दिक् । अप्रसिद्धयेति । निवेशसम्भवादिति । अत एवोक्तं तथा चाधेयत्वघटना न सम्भवतीति भावः । आलोकप्रकाशः. ध्वंसप्रतियोगिभिन्नत्वेति । सत्तादिव्यावृत्तये कालिकसम्बन्धेन संयोगभिन्नत्ववत इति । संयोगभेदस्य तद्व्यक्तित्वेनैव हेतुघटकत्वान्न व्यर्थविशेषणता । न च लक्षणानुसारादुक्तहेतोर्लक्ष्यत्वमेव नोपेयत इति वाच्यम्, लक्ष्यानुसारेण लक्षणशिक्षणस्यैव युक्तत्वात् । तदुक्तम् — लक्ष्यानुगममात्रं हि कर्तु युक्तं परीक्षकैः । न सर्वलोक सिद्धस्य लक्षणेन निवर्तनम् ॥ इति । उक्त परिष्कारस्यावश्यकत्वादिति । न चोक्तरीत्या परिष्कार एव दुर्घट;, प्रमेयत्वोपलक्षितहेतुकस्थले हेतुतावच्छेदकता स्वव्यापकप्रतियोगिताकभेदाप्रसिद्धया अव्याप्तेरिति वाच्यम् । स्वाभाववन्निष्ठाधेयतानिरूपितत्वसम्बन्धावच्छिन्नस्वनिष्ठप्रतियोगिताकात्यन्ताभाववत्त्वसम्बन्धेन हेतुतावच्छेदकतात्वव्यापकधर्मविशिष्टत्वस्याधिकरणताविशेषणत्वविवक्षया अदोषात् । व्यापकता च पूर्वोक्तसम्बन्धेन । तथा च प्रकारत्वादिकमादायोक्तस्थले तद्विशिष्टाधिकरणत्वस्य प्रसिद्धिः । न च स्वावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकहेतुतावच्छेदकता पर्याप्त्यनुयोगितावच्छेदकधर्मकं यत् स्वाभाववन्निरूपितत्वसम्बन्धावच्छिन्नस्वनिष्ठप्रतियोगिताकात्यन्ताभाववत्त्वसम्बन्धेन तद्विशिष्टाधिकरणत्वं विवक्ष्यते । एवञ्च पूर्ववद्यच्छ देन प्रकारत्वादिग्रहणेन सामञ्जस्ये व्यापकताघटितपरिष्कारो व्यर्थं एवेति वाच्यम्; इष्टापत्तेः । इदन्तु For Private And Personal Use Only
SR No.020673
Book TitleNa Cha Ratnamalika
Original Sutra AuthorN/A
AuthorSastra Sharma, Surati Narayanmani Tripathi
PublisherVaranaseya Sanskrit Vishvavidyalay
Publication Year
Total Pages215
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy