________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
... 'न च' रस्नमालिका
( यत्समानाधिकरणशब्दार्थस्य त्रयो विकल्पाः) अथात्र यत्समानाधिकरणपदेन किं यनिरूपिताधिकरणतावद्व. त्तित्वम् ? किं वा यनिष्ठाधेयतानिरूपकवृत्तित्वम् , उत वा यनिष्ठाधेयतानिरूपिताधिकरणतावद्वृत्तित्वं विवक्षितम् ।
नूतनालोकः अस्मिन् पक्षे प्रथमविग्रहवाक्यघटकसमानपदस्याधिकरणतावदर्थकत्वे अधिकरणपदस्याधेयतानिरूपकार्थकत्वमिति न शाब्दबोधानुपपत्तिः।।
यनिरूपिताधिकरणतावदिति । अत्राधिकरणतात्वेनाधिकरणतानिवेशान्न धूमनिरूपितामाधेयतामादाय धूमसंयुक्तमपि धूमनिरूपितवद्भवतीत्यव्याप्तिः ।
यन्निष्ठाधेयतानिरूपकेति । अत्राधेयतात्वेनाधेयतानिवेशाद्धेतुनिष्ठप्रकारतानिरूपकज्ञाने साध्याभावस्य सत्त्वेऽपि नाव्याप्तिः। ___यनिष्ठाधेयतानिरूपिताधिकरणतेति। अत्राधेयतेति स्वरूपकीर्तनमात्रम् , न तु तत्त्वेन प्रवेशः, वास्तवप्रयोजनाभावात् । अधिकरणतात्वेनाधिकरणताप्रवेशाद् धूमत्वनिष्ठां संयोगसम्बन्धावच्छिन्नधूमनिष्ठाधेयतानिरूपितावच्छेदकतामादाय नाव्याप्तिः। स्वरूपसम्बन्धावच्छिन्नघटनिरूपिताधेयतेति । अत्र घटनिरूपितेति परिचायकमेव, न तु हेतुतावच्छेदकघटकम्, प्रयोजनाभावात् ।
आलोकप्रकाशः क्रमिकं यन्नामयुगमेकार्थेऽन्यार्थबोधकम् ।
तादात्म्येन भवेदेष समासः कर्मधारयः ॥ इति कर्मधारयलक्षणञ्च वेदितव्यम् । अधिकं शब्दशक्तिप्रकाशिकायां द्रष्टव्यम् ।
न शाब्दबोधानुपपत्तिरिति । न च समानपदार्थविशेष्यकोऽधिकरणपदार्थप्रकारक एव बोधोऽस्तु, अधिकरणपदार्थैकदेशेऽधिकरणतायामन्यपदार्थनिरूपितत्वस्याप्यन्वयाद्विधेयकोटावधिकावगाहित्वेन निराकाङ्क्षताविरहादिति वाच्यम् ; बहुवीहिस्थले विग्रहवाक्यजन्यबोधस्योत्तरपदार्थविशेष्यकत्वस्यैवौत्सर्गिकत्वेनाधिकरणपदार्थस्य विशेष्यत्वावश्यकत्वादिति भावः ।
वास्तवेति । यद्यप्यत्र संयोगसम्बन्धावच्छिन्नधूमनिष्ठप्रतियोगित्वादिव्यावृत्तये तथा निवेश आवश्यकः, तथापि वक्ष्यमाणपरिष्कारेण तद्वथावृत्त्या न तस्य वास्तवप्रयोजनकत्वमिति भावः ।
अवच्छेदकतामादायेति । यद्यपि निरूपिते हेतुतावच्छेदकसम्बन्धावच्छिन्नत्वनिवेशादियमव्याप्तिः परिहर्तुं शक्यते, तथापि द्रव्यं समवायेन धूमादित्यादावव्याप्तिर्वारा।
For Private And Personal Use Only