SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'न च' रत्नमालिका नूतनालोकः केचित्तु, "समानाः सत्समैके स्युः” इति कोशात् सादृश्यविशिष्टार्थकमपि समानपदं प्रकृते लक्षणया अधिकरणसादृश्यविशिष्टार्थकम् , सादृश्याश्रयतया अधिकरणनिर्देशात् , यथा “त्वन्नेत्रसमानकान्ति” इत्यादौ समानपदं कान्तिसादृश्यविशिष्टार्थकम् । सादृश्यं चात्र भेदाघटितं तद्वयक्तित्वादिरूपम् , अथवा एकपदसमानार्थकतया अधिकरणनिष्ठभेदाप्रतियोगित्वरूपकैवल्यविशिष्टार्थकं तत् , यथा “तत्समानोदरोऽयम्” इत्यादौ उदरनिष्ठभेदाप्रतियोगित्वविशिष्टाद्यर्थकम् । यद्वा अधिकरणतादात्म्यरूपाधिकरणाभेदविशिष्टार्थकं तदित्याहुः। तन्न, अधिकरणे लक्षणायाः सम्भवे तद्धटिते तत्कल्पनमन्याय्यम्। एतदभिप्रायेणैवासमानाधिकरणपदं दीधितिकृता अधिकरणानधिकरणपदेन व्याख्यातमित्यभिप्रेत्याह-अधिकरणमित्यादि । आलोकप्रकाशः च्छिन्नविशेषणतया भानम् , अवच्छिन्नप्रतियोगिताकत्वविशेष्यतया चान्योन्याभावस्य भानम् , तस्य चाश्रयत्वे भानम् । इत्थं चान्योन्याभावस्यात्र त्रेधा भानम् । वाकारस्यान्यतमार्थकत्वस्थले चतुर्धा पञ्चधेत्यादिकमूह्यमित्याहुः । नव्यास्तु-वाकारस्य भेदोऽर्थः । भेदे वाकारसमभिव्याहृतपदार्थयोस्तत्तद्भेदावच्छिन्नप्रतियोगिताकत्वसम्बन्धेनान्वय इति प्राहुः । निरुक्तसर्वपक्षेष्वप्यन्यतरत्वस्याव्यासव्यवृत्तित्वेऽप्युभयोवृत्तित्वादुभयविधार्थोपादानमेकदा वारयितुं न शक्यते । एवं निरूपितत्वादेरर्थतावच्छेदकत्वभानमपि न सिद्धयेत् , किन्तु अन्यतरत्वस्यैवेति वाशब्दस्यात्र निष्ठत्वविषयिताशून्यत्वं निरूपित्वविषयिताशून्यत्वं चार्थः । अर्थपदार्थघटकबोधव्यक्त्योरेकैकस्यामेकैकस्यान्वयः । तथा च निरूपितत्वनिष्ठत्वाविषयकबोधविषयत्वेनेच्छाविषयः, निष्ठत्वं निरूपितत्वाविषयकबोधविषयत्वेनेच्छाविषय इति प्रकृते बोध इति तु तत्वम् । अधिकरणसादृश्यविशिष्टार्थकमिति । इयं च लक्षणा निरूढा ग्राह्या, समानपदस्याभेदेन स्वार्थान्वयितावच्छेदकावच्छिन्नसदृशे भूरिप्रयोगदर्शनात् । दृष्टान्ते भेदघटितसादृश्यस्यैव प्रतीतेराह---अथवेति । अधिकरणनिष्ठभेदाप्रतियोगित्यरूपेति । अत्र खण्डशक्तिरेवोपेया, अतो नाप्रसिद्धिः । तत्समानोदरोऽयमित्यादावित्यादिपदेन समानग्रामा क्यमित्यादिपरिग्रहः । ___अत्र निरुक्तकैवल्यप्रतीतेः सविवादत्वादाह-यद्वेति । अधिकरणतादात्म्येति । कोशस्थैकपदस्याभेदार्थकत्वादित्याशयः । For Private And Personal Use Only
SR No.020673
Book TitleNa Cha Ratnamalika
Original Sutra AuthorN/A
AuthorSastra Sharma, Surati Narayanmani Tripathi
PublisherVaranaseya Sanskrit Vishvavidyalay
Publication Year
Total Pages215
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy