________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नूतनालोकटीका-तस्प्रकाशटिप्पण्योपबृंहिता १५९ न च स्वप्रागभाववत्त्वस्थाने खोत्पत्त्यधिकरणक्षणध्वंसप्रागभाववत्त्वं निवेश्य कार्यसहभावेन प्रतिबन्धकत्वं कल्प्यते । तथा च न प्रत्यक्षोत्पादकालेऽनुमित्यापत्तिरिति वाच्यम् । एवमपि यत्र विनश्यदवस्थसामग्रीवशात् प्रत्यक्षं शाब्दसामग्रीसमवधानं च, तत्र तदनन्तरं शाब्दानुपपत्तेः, पूर्वक्षणे प्रतिबन्धकसत्त्वात् , लाघवादुत्पत्तिक्षणावच्छिन्नाश्रयतासम्बन्धेन फलस्यैव प्रतिबन्धकत्वौचित्याञ्च । यद्यप्यत्र क्षणैकविलम्येन शाब्दबोधोऽभ्युपगम्यते, तथापि यत्र पदार्थोपस्थित्यादिकारणाव्यवहितोत्तरक्षण एव विनश्यदवस्थापनसामग्यधीनं प्रत्यक्षम् , तत्र शाब्दानुपपत्तिर्दुवारैवेति ।
नूतनालोकः स्थान इति । वस्तुतस्त्वव्यवधानांशो नोपादेय इति बोध्यम् । पूर्ववृत्तितया प्रतिबन्धकत्वमात्रस्वीकारमात्रेण प्रकृतेऽनिर्वादाह-कार्यसहभावेनेति । कार्यसहभावेनापीत्यर्थः। शाब्दानुपपत्तेरिति । सामग्रीप्रतिबन्धकत्वपक्षे तु सामन्याः पूर्वक्षणे विनाशान शाब्दानुपपत्तिरिति बोध्यम् ।
. आलोकप्रकाशः मूले--शाब्दसामग्रीसमवधानमिति । प्रत्यक्षात्मकसिद्धिसत्त्वान्नानुमितिसामग्रीसम्भव इत्यतोऽनुमितिसामग्र्युपेक्षा। इदमुपलक्षणम् । यत्र विनश्यदवस्थसामग्रीजन्यानुमितिभिन्नविषयकप्रत्यक्षसामग्रीसमक्धानञ्च, तत्र तदनन्तरं प्रत्यक्षानुपपत्तेरपि । व्याख्यायाम्-कार्यसहभावेनापीत्यर्थ इति । यस्य पूर्वकालवृत्तितया प्रतिबन्धकत्वम् , तस्यैव कार्यकालवृत्तितया प्रतिबन्धकत्वमिति नियममनुसृत्येदम् ।
___ मूले--यद्यपीत्यादि। अत्र यद्यपीत्यस्य अनादरोऽर्थः। अप्रयोजकत्वरूपस्य तस्याभ्युपगमेऽन्वयः । तथा च प्रतिबन्धकताविघटकव्यभिचारवारणायोपन्यस्तोऽयं क्षणैकविलम्बाभ्युपगमो न किञ्चित्करः, क्वचिद्वयभिचारवारणेऽपि सर्वत्र तदवारणादिति भावः । एतदेवाह-तथापीत्यादिना । तथापीत्यस्योक्ताभ्युपगमज्ञानाप्रतिवध्यज्ञानविषयत्वमः, “तथापि स्यादवाध्यत्वे यद्यपि स्यादनादरे" इत्युक्तत्वात् । तस्य शाब्दानुपपत्तावन्वयः । तथा च शाब्दस्य क्षणैकविलम्बकल्पना अकिञ्चित्करी, व्यभिचारज्ञानसामान्यानिवर्तकत्वादिति निर्गलितोऽर्थः । एवमेवान्यत्रापि । यद्यपि-तथापीत्यनयोरवूिहनीयौ। यत्र ज्ञानार्थकबोध्यादिपदं श्रूयते तत्र ज्ञानाप्रतिवध्यत्वपर्यन्तमेव तथाप्यर्थो वक्तव्य इति । अभ्युपगम्यत इति । क्षणस्यातिसूक्ष्मत्वेन तथाऽभ्युपगमेऽनुभवविरोधविरहादिति भावः । शाब्दानुपपत्तिरिति । तत्र प्रत्यक्षानन्तरक्षणे पदार्थोपस्थित्यादे शेन क्षणविलम्बस्य कल्पयितुमशक्यत्वादिति
For Private And Personal Use Only