SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४६ 'न च' रत्नमालिका न च प्रतिवध्यतायाः स्वीयविशेष्यतावच्छेदकावच्छिन्नविशेष्यतानिरूपितसाध्यतावच्छेदकावच्छिन्नप्रकारतासामान्यावच्छिन्नत्वविवक्षणानोक्तप्रतिव यतामादायासम्भवः, संशयीयतादृशप्रकारतायास्तदनवच्छेदकत्वादिति वाच्यम् ; एवं सति तादृशविषयतासामान्यान्तर्गताया लौकिकविषयताया बाधादिनिश्चयप्रति . नूतनालोकः तादृशप्रकारतायास्तदनवच्छेदकत्यादिति । निश्चयत्वस्य प्रतिवध्यतावच्छेदकघटकत्वादिति भावः । लौकिकविषयताया बाधनिश्चयप्रतिवध्यतानवच्छेदकतयेति । प्रतिवध्यतावच्छेदकघटकलौकिकसन्निकर्षाजन्यत्वस्य प्रकारतायां लौकिकविषयताभिन्नत्वपर्यवसायित्वादिति भावः । न च लौकिकतदभाववत्तानिश्चयकाले लौकिकतद्वत्ताबुद्धिवारणाय लाघवाल्लौकिकत्वं प्रतिवध्यतावच्छेदककोटावनिवेश्य तद्वत्ताबुद्धिसामान्यं प्रति तादृशनिश्चयत्वेन प्रतिबन्धकत्वान्तरस्य कल्पनीयतया न तादृशप्रतिवध्यत्वाप्रसिद्धिरिति वाच्यम् ; अतीन्द्रियसाध्यके लौकिकतदभाववत्तानिश्चयस्यैवासम्भवेन तादृशप्रति आलोकप्रकाशः निश्चयत्वस्य प्रतिवध्यतावच्छेदकघटकस्वादिति । न च संशयनिश्चयांवेषयतया रैवयानिश्चयत्वस्य प्रतिवध्यतावच्छेदकघटकत्वेऽपि तादृशप्रकारतासामान्यावच्छिन्नत्वं निरुक्तसामग्री प्रतिवध्यतायां सम्भवत्येवेति वाच्यम् ; निश्चयीयतादृशप्रकारतायाः संशयसाधारण्यं दुर्घटमिति तद्विषयतयोरैक्यासम्भवात् । तथाहि-समुच्चयवैलक्षण्याय संशये एका विशेष्यता स्वीक्रियत इत्येकः पक्षः । कोटिविषयतयोरवच्छेद्यावच्छेदकभाव इत्यपरः पक्षः। कोटिताख्यविलक्षणविषयतेत्यन्यः पक्षः। कोट्योर्विरोधमानमितीतरः पक्षः। एतत्तत्त्वमुपरिष्टाद्वयक्तीभविष्यति । तत्राचरमे पक्षे संशयीयविषयताया विलक्षणत्वेन निश्चयसाधारण्यमप्रसक्तमेव । चरमपक्षे ताया वह्नयभावविरुद्धवह्निमानित्यादिविरोधावगाहिनिश्चयसाधारण्यसम्भवेऽपि साध्यतावच्छेदकपयांशावच्छेदकताकप्रकारताया एव प्रकृते विवक्षितत्वाद्विरोधानवगाहिनिश्चयमात्रस्थया तया तदवगाहिसंशयीयविषयताया ऐक्यं नैव सम्भवतीति । लौकिकविषयताभिन्नत्वपर्यवसायित्वादिति । अन्यथा धााशे लौकिक-यासंग्रहापत्तेरिति भावः। तद्वत्ताबुद्धिसामान्यं प्रतीति । न चोक्तप्रतिवध्यप्रतिबन्धकभावावच्छेदककोटौ दिनकरोक्तरीत्या तत्तदिन्द्रियजन्यत्वनिवेशनस्यावश्यकतया कथं तद्वत्ताबुद्धिसामान्यस्य लौकिकतदभाववत्तानिश्चयप्रतिवध्यत्वम् , चाक्षुषादेरेव तथात्वादिति वाच्यम ; चक्षुरादीन्द्रियभेदेनेव विषयभेदेना युक्तप्रतिवध्यप्रतिबन्धकभावस्य भिन्नतया प्रमायभावलौकिक चाक्षुपादिप्रतिवध्यतावच्छेदककोटौ चाक्षुषत्वादिनिवेशे प्रयोजनाभावेन तन्निष्ठप्रकारताकबुद्धित्व For Private And Personal Use Only
SR No.020673
Book TitleNa Cha Ratnamalika
Original Sutra AuthorN/A
AuthorSastra Sharma, Surati Narayanmani Tripathi
PublisherVaranaseya Sanskrit Vishvavidyalay
Publication Year
Total Pages215
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy