SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथ तृतीयालोकः अथ संयोगसमवायादिनानासंसर्गकसाध्यवत्ताज्ञानत्वव्यापिका कामिनीजिज्ञासादिप्रतिवध्यतैव, तदनिरूपकत्वञ्च साध्याभावप्रमासामान्यस्येत्यतिव्याप्तिः । न च स्वविषयीभूताभावप्रतियोगितावच्छेदकसम्बन्धसंसर्गकसाध्यवत्ताज्ञानविवक्षणान्नातिव्याप्तिरिति वाच्यम् ; एवमपि पूर्वक्षणवृत्तित्वविशिष्टस्वाभावनिष्ठप्रतियोगितावच्छेदकीभूतस्वरूपसम्बन्धाव्यावृत्तेः, समवायेन गुणाभाववान् द्रव्यत्वादित्यादौ समवायसम्बन्धाव्यावृत्तेश्चेति चेत् ,सत्यम् । यत्समानाधिकरण नूतनालोकः कामिनीजिज्ञासादीति । आदिपदेन साध्य वृत्तित्वसामान्याभाववदिति ज्ञानपरिग्रहः । स्वविषयीभूतत्वमभावे प्रतियोगितायां वा विशेषणमिति विकल्पं मनसि निधायाह-एवमपीति । स्वरूपसम्बन्धाव्यावृत्तेरिति । न च प्रतियोगितायां साध्यनिष्ठत्वस्यापि विवक्षणानोक्ता व्यावृत्तिरिति वाच्यम् ; एवं सति साध्याभावपदवैयाभिधानासङ्गतः । तत्पदानुपादाने घटाभावप्रमाया अपि सामान्यान्तर्गततया तद्विषयीभूताभावनिरूपितसाध्यनिष्ठप्रतियोगित्वाप्रसिद्धस्तत्सार्थक्यसम्भवात् । समवायसम्बन्धाव्यावृत्तेरिति । गुणाभावाभाववानिति प्रमायां गुणाभावनिष्ठस्वरूपसम्बन्धावच्छिन्नप्रतियोगिताया इव गुणनिष्ठसमवायसम्बन्धावच्छिन्नप्रतियोगिताया अपि भानादिति भावः। अयश्च दोषः कल्पद्वयसाधारणो बोध्यः। न च स्वीयमुख्यविशेष्यतानिरूपितप्रकारतानिरूपितविषयताश्रयप्रतियोगितावच्छेदकसम्बन्धसंसर्गकत्वविवक्षणान्नोक्तदोष इति वाच्यम् ; एवमपि संयोगेन गुणवान् द्रव्यत्वादित्यादावतिव्याप्तः, गगनत्वेन गगनं नास्तीत्यभावप्रतियोगिताया गगनत्वेन गगनभिन्नं नास्तीति प्रतीतिसिद्धप्रतियोगित्वादिव स्वरूपसम्बन्धावच्छिन्नगुणत्वावच्छिन्नप्रतियोगितायाः संयोगसम्बन्धावच्छिन्नतादृशप्रतियोगित्वादनतिरेकेण स्वरूपसम्बन्धस्यापि संयोगेन गुणाभाववानिति आलोकप्रकाशः अनतिरेकेणेति । "अवृत्तिमात्रवृत्तिगगनत्वादिना” इति दीधितिव्याख्यानावसरे चतुर्दशलक्षणीगादावर्या प्रदर्शितयुक्तः प्रतियोगितावच्छेदकसम्बन्धभेदेऽपि प्रसरादिति भावः । For Private And Personal Use Only
SR No.020673
Book TitleNa Cha Ratnamalika
Original Sutra AuthorN/A
AuthorSastra Sharma, Surati Narayanmani Tripathi
PublisherVaranaseya Sanskrit Vishvavidyalay
Publication Year
Total Pages215
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy