________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
'न च' रत्नमालिका
नूतनालोकः तरमात्यन्तिकदुःखविगमसम्भवात् । अत एव तत्त्वज्ञानेन कर्मणामविनाशे दुःखस्यावश्यकतया तत्त्वज्ञानोपाये श्रवणादौ प्रवृत्त्यनुपपत्तिरित्यपि समाहितम् , न चैवमपि तत्त्वज्ञानस्य कर्मनाशकत्वाभावे "भिद्यते हृदयग्रन्थिः", "ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुतेऽर्जुन" इत्यादिबहुतरवाक्यव्याकोप इति वाच्यम् ; यतो "नाभुक्तम्” इत्यादिवचनानुरोधेन तत्त्वज्ञानं कायव्यूहादिसम्पादनद्वारा झटिति सकलकर्मभोगान् निर्वाह्य तानि नाशयतीत्यत्रैव ज्ञानस्य कर्मनाशकताबोधकवाक्यानां तात्पर्यम् , न तु तत्त्वज्ञानाव्यवहितोत्तरं कर्मणां विनाशे, "तावदेवास्य चिरं यावन्न विमोक्ष्ये अथ सम्पत्स्ये” इत्यादिश्रुतिविरोधापत्तेः । अत एव यथाग्नेरिन्धननाशे परम्परयैव हेतुता, तथा ज्ञानस्यापि कर्मनाश इत्येतत् सूचनायैव ज्ञानस्याग्नित्वेन रूपणं भगवता कृतम् । स्पष्टं चेदं मुक्तिवादचिन्तामणाविति । न च भोगस्यैव कर्मनाशकत्वे काशीमरणाव्यवहितोत्तरं मुक्तेरनुपपत्तिः, शरीराद्यभावेन भोगासम्भवात्। नह्यव्यवधाने प्रमाणाभावः,
आलोकप्रकाशः बीजान्यग्न्युपदग्धानि न रोहन्ति यथा पुनः ।
ज्ञानदग्धैस्तथा क्लेशैर्नामा सम्पद्यते पुनः ॥ इत्यादि स्मृतिसंग्रहः।
तावदेवास्य चिरमिति । “आचार्यवान् पुरुषो वेद तस्य तावदेवास्य चिरं यावन विमोक्ष्ये, अथ सम्पत्स्ये" इति छान्दोग्यम् । अस्याः श्रुतेरयमर्थः-तस्य तत्त्वज्ञानवतो जीवन्मुक्तस्य तावदेव चिरं तावानेव विदेहकैवल्यस्य विलम्बः, यावन विमोक्ष्ये यत्कालपर्यन्तं प्रारब्धकर्मभिर्न विमुच्येत । 'अथ सम्पत्स्ये' अथ प्रारब्धकर्मनाशानन्तरं सम्पत्स्ये विदेहकैवल्येन सम्पन्नो भविष्यति । कथं तर्हि प्रारब्धकर्मनिवृत्तिरित्याशङ्कथ भोगादित्याशयेनाह-यावदिति । प्रारब्धकर्मध्वस्तावपि कथं देहादिधीध्वस्तिरित्याशङ्कय प्रारब्धरूपप्रतिबन्धकनाशादित्याह-अथेति । उत्तमपुरुषस्तूभयत्र प्रथमपुरुषे छान्दसः । प्रारब्धकर्मक्षपणार्थ ज्ञानिनां कायव्यूह इव मायाविमोहितानां क्षणेनैकेन मायामयविग्रहान्तरपरिग्रहा विचित्राश्चानुभवाः श्रूयन्ते पुराणेषु, भगवन्मायाविमोहितः कदाचिनारदः कन्यात्वमवाप । तां कश्चिदुदवहत् । ततः पुत्रान् बहूनजनयत् । सांसारिकञ्च दुःखमनेककालीनमन्वभूत् । ततो भर्तुः पुत्राणाञ्च वियोगमनुभुय पुनर्नारद एवासीदिति । एवञ्जातीयाः सन्त्यन्याश्चानेकशः कथाः। कायधूहादीत्यत्रादिपदेन मायिकतादृशविग्रहो ग्राह्यः । परम्परयैवेति । आदा
For Private And Personal Use Only