SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८६ 'न च' रत्नमालिका अथ गुणाभाववान् गुणत्वादित्यादावव्याप्तिः; अभावो गुणवान् व्यधिकरणधर्मावच्छिनप्रतियोगिताकगुणाभावाभाववांश्चेति समूहालम्बनाद्यव्यावृत्तेः। नहि प्रमापदेन तद्वयावृत्तिः। तथा हि-स्वव्यधिकरणप्रकारावच्छिन्ना या या विषयता, तत्तदनिरूपकत्वरूपं प्रमात्वमिह विवक्षितम् , तत्र स्वव्यधिकरणत्वं प्रकारतावच्छेदकसम्बन्धेन खाधिकरणावृत्तित्वरूपम् । तथा च गुणनिष्ठ नूतनालोकः समूहालम्बनेति । एकत्र द्वयमिति रीत्या तदुभयावगाहिज्ञानस्य स्वीयविशेष्यतानिरूपितप्रकारतावच्छेदकसम्बन्धत्वं स्वरूपस्यापीति प्रमापदेन व्यावृत्तेः समूहालम्बनानुधावनम् । इदश्च एषु कल्पेषु समूहालम्बनभिन्नत्वादेः प्रयोजनाभावेन न निवेश इत्यभिप्रेत्य, तन्निवेशे त्वाह-आदीति । आदिना गुणवद्वयधिकरणधर्मावच्छिन्नप्रतियोगिताकसाध्याभाववानित्यादिज्ञानसंग्रहः। तत्तदनिरूपकत्वरूपं प्रमात्वमिति । तद्वति तत्प्रकारकस्येव तत्तदनिरूपकत्वस्यापि प्रकर्षस्यात्र प्रोपसर्गतात्पर्यविषयत्वादिति भावः । स्वाधिकरणावृत्तित्वरूपमिति । स्वानधिकरणवृत्तित्वरूपत्वे पर्वतो घटत्वेन वह्नयभाववानित्यादि ज्ञानस्य प्रमात्वानुपपत्तेः। तादृशवह्नयभावस्य स्वानधिकरणघटादिवृत्तित्वादितिभावः । व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकवह्नयभावादावपि पूर्वक्षणवृत्तित्वविशिष्टत्यादिना पर्वतादिनिष्ठाभावप्रतियोगित्वसत्त्वात् तत्प्रकारकज्ञानासंग्रहः, अत आह--तथा चेति । प्रकारताविशिष्टविशेष्यतानिरूपकत्वत्वावच्छिन्नप्रतियोगिता आलोकप्रकाशः वच्छिन्नविषयकत्वस्य हृदत्वनिष्ठा या घटाभावभेदाधिकरणता, तन्निरूपितप्रतिबन्धकतानिष्ठाधिकरणताया एव समानाधिकरणसम्बन्धत्वेन ह्रदत्वनिष्ठवह्नयभावभेदाधिकरणतानिरूपिताधिकरणताया व्यधिकरणत्वादिति तद्विशेषणमर्थवदेवेत्याशयः ।। व्याख्यायाम्-अत्र प्रमापदे तात्पर्यविषयत्वादिति। यद्यपि माधातुसमभिव्याहृतप्रशब्दस्य तद्वतितत्प्रकारकत्वरूपयाथार्थ्य एवानादितात्पर्यम् , तदुक्तं प्रामाण्यवादे-“माधातुपूर्वप्रशब्दस्य याथार्थ्यरूपप्रकर्ष एवानादितात्पर्यादित्यर्थः” इति, तथापि बाहुल्येन तान्त्रिकव्यवहारविषयत्वमत्राप्यत्येव । तथा च गौरवात् शक्त्यभावेऽपि वृत्त्यन्तरेण स्मृतिव्यावृत्तरूपावच्छिन्न इव पारिभाषिकतया वा तदर्थत्वे बाधकाभावः । अत एवेदं पारिभाषिकं प्रमात्वमिति व्यवहारः । स्मृतिव्यावृत्तरूपावच्छिन्ने परिभाषा तु-"स्मृतिहेतोः प्रमाणान्तरतापत्तेस्तु भीतास्तान्त्रिकाः शास्त्रे प्रमाव्यवहारौपयिकं स्मृतिव्यावृत्तं रूपमनुमन्यन्ते' इति शिरोमणि For Private And Personal Use Only
SR No.020673
Book TitleNa Cha Ratnamalika
Original Sutra AuthorN/A
AuthorSastra Sharma, Surati Narayanmani Tripathi
PublisherVaranaseya Sanskrit Vishvavidyalay
Publication Year
Total Pages215
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy