SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३८ Acharya Shri Kailassagarsuri Gyanmandir [ शतार्थविवरणे वचनात् ऋ भूमिः, तस्या युः श्रीजगत्याः, अकं दुःखं करोति णिजि क्विपि अग् - दुःखकृत्, नकारस्य निषेधार्थत्वात् न अग् अदुःखकृदित्यर्थः । भवान् पुनः किंवि० ? आं- श्रियं, स्तनति वक्ति क्विपि आस्ता । भवान् किं कुर्वन् ? ' कः स्मरस्वर्गवह्नि 'ष्विति महीपवचनात् कः-स्वर्गः, थो - भीत्राणं, समाहारे कथं, 'राङ्क दाने' शतरि रानू - दददित्यर्थः । भवान् पुनः किंवि० ? स्वं - आत्मानं, याति डप्रत्यये स्वयं - आत्माश्रितं, परं- अन्यं, ईश्वरीकर्तुं ईश्वर:प्रभुरित्यर्थः ||३४|| अर्थद्वयेन श्रीवीरं व्यावर्ण्य सर्वान् जिनान् वर्णयति - परिग्रहारम्भमग्नास्ता ! र ! येऽयुः कथं परान् ! स्वयं दरिद्रो न परमीश्वरीकर्तुमीश्वरः ||३५|| व्याख्या - हे र-नर ! परिग्रहो - धनधान्यादिः, आरम्भः - कृषि - वाणिज्यादिः समाहारद्वन्द्वे परिप्रहारम्भं ये स्वयं- आत्मनैव नतु परोपदेशादित्यर्थः । न अयु:- न गताः । एतावता ये स्वयमेव निःस्पृहा जाताः । यत्तदोर्नित्यसम्बन्धात् तान् । परान् तीर्थकरान्, हेर - हे नर ! नणयोरैक्यात् त्वं अण-वद ब्रूहीत्यर्थः । परशः तीर्थकरनामवाची अर्हन्नामसहस्रसमुच्चये प्रथमप्रकाशेऽस्ति । यदुक्तं - 'विष्णुर्जिष्णु जयी जेता, जिनेन्द्रो जिनपुङ्गवः । परः परतरः परमेष्ठी सनातनः ||१|| इति । परिग्रहारम्भं किंवि० ? सूक्ष्मः, अकं - दुःखं, करोति णिजि क्विपि अग् - दुःखकारि । ये किंवि० ? अस्तः- क्षिप्तः 'आ विधातरि मन्मथ ' इति महीपवचनात् आः - कामो यैः ते अस्ताः - वीतरागा इत्यर्थः । अथ व्यतिरेकेणाह - परं - 1 For Private And Personal Use Only
SR No.020669
Book TitleShatarth Vivaranam
Original Sutra AuthorN/A
AuthorLabhsagar
PublisherAgamoddharak Granthmala
Publication Year
Total Pages120
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy