________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૨૬
देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः
[गाथाकार्मणनिबन्धनं नाम कार्मणनाम, यदुदयात् कार्मणप्रायोग्यान पुद्गलानादाय कार्मणशरीररूपतया परिणमयति, परिणमय्य च जीवप्रदेशैः सहान्योऽन्यानुगमरूपतया सम्बन्धयतीति ५॥ ३२ ।। उक्तं तनुनाम पञ्चधा ३, इदानीमङ्गोपाङ्गनाम त्रिधा पाह
बाहर पिट्टि सिर उर, उयरंग उवंग अंगुलीपमुहा ।
सेसा अंगोवंगा, पढमतणुतिगस्सुवंगाणि ॥ ३३ ॥ 'बाहू' भुजद्वयम् 'ऊरू' ऊरुद्वयम् 'पृष्ठिः' प्रतीता 'शिरः' मस्तकम् 'उरः' वक्षः 'उदरं' 'पोट्टमित्यष्टावनान्युच्यन्ते । इह विभक्तिलोपः प्राकृतत्वात् , एवमन्यत्रापि । उपाङ्गानि अङ्गुलीप्रमुखाणि, इह पुंस्त्वं प्राकृतत्वात् । 'शेषाणि' तत्प्रत्यवयवभूतान्यङ्गुलपर्वरेखादीनि अनोपाजानि, इहापि पुंस्त्वं प्राकृतत्वात् । प्राकृते हि लिङ्गमतन्त्रम् । यदाहुः प्रभुश्रीहेमचन्द्रसूरिपादाः खप्राकृतलक्षणे-“लिङ्गमतन्त्रम्" (सि०८-४-४४५) इति । इमानि च उपाङ्गानि "पढमतणुतिगस्स" ति प्रथमाः-आधा यास्तनवः-शरीराणि तासां त्रिकं-त्रितयमौदारिकवैक्रियाऽऽहारकखरूपम् तस्य प्रथमतनुत्रिकस्य भवन्ति । ततः प्रथमतनुत्रिकद्वारेणाङ्गोपाङ्गनामापि त्रिविधं मन्तव्यम् । तथाहि-औदारिकाङ्गोपाङ्गनाम वैक्रियानोपाङ्गनाम आहारकाङ्गोपाङनाम । तत्र यदुदयाद् औदारिकशरीरत्वेन परिणतानां पुद्गलानामङ्गोपाङ्गविभागपरिणतिरुपजायते तद्
औदारिकाङ्गोपाङ्गनाम १ । यदुदयाद् वैक्रियशरीरत्वेन परिणतानां पुद्गलानामङ्गोपाङ्गविभागपरिणतिरुपजायते तद् वैक्रियाङ्गोपाङ्गनाम २ । यदुदयाद आहारकशरीरत्वेन परिणतानां पुद्गलानामङ्गोपाङ्गविभागपरिणतिरुपजायते तद् आहारकाङ्गोपाङ्गनाम ३ । तैजसकार्मणयोस्तु जीवप्रदेशसंस्थानानुरोधित्वात् नास्त्यङ्गोपाङ्गसम्भव इति ॥ ३३ ॥ उक्तं त्रिविधमङ्गोपाङ्गनाम । साम्प्रतं बन्धननामखरूपमाह
उरलाइपुग्गलाणं, निबद्धबझंतयाण संबंधं ।
जं कुणइ जउसमं तं, उरलाईबंधणं नेयं ॥ ३४॥ औदारिकादिपुद्गलानाम् आदिशब्दाद वैक्रियपुद्गलानाम् आहारकपुद्गलानां तैजसपुद्गलानां कार्मणपुद्गलानाम् , किंविशिष्टानाम् ? इत्याह-"निबद्धबझंतयाण"ति निबद्धाश्च बध्यमानाश्च निबद्धबध्यमानास्तेषां 'निबद्धबध्यमानानां' पूर्वबद्धानां बध्यमानानां च यत् कर्म 'सम्बन्धं' परस्परं मीलनं करोति दारूणामिव जतु, अत एव जतुसमं तद् औदारिकादिबन्धनम् , आदिशब्दाद् वैक्रियबन्धनम् आहारकबन्धनं तैजसबन्धनं कार्मणबन्धनं 'ज्ञेयं ज्ञातव्यमिति गाथाक्षरार्थः । भावार्थस्त्वयम्-इह पूर्वगृहीतैरौदारिकपुद्गलैः सह परस्परं गृह्यमाणान् औदारिकपुद्गलान् उदितेन येन कर्मणा बध्नाति-आत्मा अन्योऽन्यसंयुक्तान् करोति तद् औदारिकशरीरबन्धननाम दारुपाषाणादीनां जतुरालाप्रभृतिश्लेषद्रव्यतुल्यम् १ । पूर्वगृहीतक्रियपुद्गलैः सह परस्परं गृह्यमाणान वैक्रियपुद्गलान् उदितेन येन कर्मणा बध्नाति-आत्माऽन्योऽन्यसंयुक्तान् करोति तद् जतुसमं वैक्रियशरीरबन्धननाम २। पूर्वगृहीतैराहारकशरीरपुद्गलैः सह परस्परं गृह्यमाणान् आहारकपुद्गलान् उदितेन येन कर्मणा बध्नाति-आत्माऽन्योऽन्यसंयुक्तान् करोति तद् जतुसममाहा
१पुटि क० ख० ग० उ०॥ २ पेमि घ०॥
For Private and Personal Use Only