SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९४ देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः [ गाथा यदाहुः श्रीहेमचन्द्रररिपादाः-उच्यते रूढिवशाद् लिङ्गस्य न नियमः । यदाह पाणिनिःलिङ्गमशिष्यम् , लोकाश्रयत्वात् तस्येति । ततः काल एव तत्तद्रूपद्रवणाद् द्रव्यं कालद्रव्यम् , तत्र च कालस्य वस्तुतः समयरूपस्य निर्विभागत्वाद् न देशप्रदेशसम्भवः, अत एवात्रास्तिकायत्वाभावो वेदितव्यः ।। - नन्वतीतानागतवर्तमानभेदेन कालस्यापि त्रैविध्यमस्तीति किमिति नोक्तम् ?, सत्यम् , अतीतानागतयोर्विनष्टानुत्पन्नत्वेनाऽविद्यमानत्वाद् वार्तमानिक एव समयरूपः सद्रूपः । यद्येवं तर्हि पूर्वसमयनिरोधेनैवोत्तरसमयसद्भावेऽसङ्ख्यातानां समयानां समुदयसमित्याद्यसम्भवादावलिकादयः शास्त्रान्तरप्रतिपादिताः कालविशेषाः कथं सङ्गच्छन्ते , सत्यम्, तत्त्वतो न सङ्गच्छन्त एव, केवलं व्यवहारार्थमेव कल्पिता इति । अथ केऽमी आवलिकादयः कालविशेषाः? इति विनेयजनपृच्छायां तदनुग्रहाय समयादारभ्य कालविशेषाः प्रतिपाद्यन्ते । तत्र समयस्वरूपमेवमनुयोगद्वारे प्रतिपाद्यते, तद्यथा- से किं तं समए ! समयस्स णं परूवणं करिस्सामि-से जहानामए तुन्नागदारए सिया तरुणे बलवं जुगवं जुवाणे अप्पायंके थिरग्गहत्थे दढपाणिपायपासपिटुंतरोस्परिणए तलजमलजुगलपरिघनिभबाहू चम्मिट्ठगदुहणमुट्ठियसमाहयनिचियगायकाए लंघणपवणजवणवायामसमत्थे उरस्सबलसमन्नागए छेए दक्खे पत्तढे कुसले मेहावी निउणे निउणसिप्पोवगए एगं महइं पडसाडियं वा पट्टसाडियं वा गहाय सयराहं हत्थमित्तं ओसारिजा, तत्थ चोयए पन्नवर्ग एवं वयासी-जेणं कालेणं तेणं तुन्नागदारएणं तीसे पडसाडियाए वा पट्टसाडियाए वा सयराहं हत्थमित्ते १ अथ कोऽसौ समयः? समयस्य प्ररूपणां करिष्यामि-असौ यथानामकः तुन्नागदारकः स्यात् तरुणः बलवान् युगवान् युवा अल्पातङ्कः स्थिरहस्तायो दृढपाणिपादपार्श्वपृष्टान्त्रोरुपरिणतः तलयमलयुगलपरिधनिभबाहुः चर्मेष्टकाद्रुघणमुष्टिकसमाहतनिचितगात्रकायो लङ्घनप्लवनजवनव्यायामसमर्थ उरस्कबलसमन्वागतः छेको दक्षः प्राप्तार्थः कुशलो मेधावी निपुणो निपुणशिल्पोपगत एकां महतीं पटशाटिकां वा पट्टशाटिकां वा गृहीला शीघ्र हस्तमात्रमपसारयेत् , तत्र चोदकः प्रज्ञापकमेवमवादीत्-येन कालेन तेन तुन्नागदारकेण तस्याः पटशाटिकाया वा पट्टशाटिकाया वा शीघ्रं हस्तमात्रं अपसारितं स समयो भवति? नायमर्थः समर्थः, कस्मात् ? यस्मात् सङ्ख्येयानां तन्तूनां समुदयसमितिसमागमेन पटशाटिका निष्पद्यते, उपरितने तन्तावच्छिन्ने आधस्त्यस्तन्तुर्न च्छिद्यते, अन्यस्मिन् काले उपरितनस्तन्तुः छिद्यते अन्यस्मिन् काले आधस्त्यः तन्तुश्छिद्यते, तस्मादसौ समयो न भवति । एवं वदन्तं प्रज्ञापकं चोदक एवमवादीत्-येन कालेन तेन तुन्नागदारकेण तस्याः पटशाटिकाया वा पट्टशाटिकाया वा उपरितनस्तन्तुश्छिन्नः स समयः? न भवति, कस्मात् ? यस्मात् सङ्ख्येयानां पक्ष्मणां समुदयसमितिसमागमेनैकस्तन्तुनिष्पद्यते, उपरितने पक्ष्मण्यच्छिन्ने आधस्त्यं पक्ष्म न च्छिद्यते, अन्यस्मिन् काले उपरितनं पक्ष्म च्छिद्यतेऽन्यस्मिन् काले आधस्त्यं पक्ष्म च्छिद्यते, तस्मात् स समयो न भवति । एवं वदन्तं प्रज्ञापकं चोदक एवमवादीत्-येन कालेन तेन तुन्नागदारकेण तस्य तन्तोरुपरितनं पक्ष्म च्छिन्नं स समयः? न भवति, कस्मात् ? यस्मादनन्तानां सङ्घातानां समुदयसमितिसमागमेन एक पक्ष्म निष्पद्यते, उपरितने सङ्घातेऽविसङ्घातिते आधस्त्यः सङ्घातो न विसङ्घात्यते, अन्यस्मिन् काल उपरितनः सङ्घातो विसङ्कायतेऽन्यस्मिन् काले आधस्त्यः सङ्घातो विसङ्गात्यते, तस्मात् स समयो न भवति । अतोऽपि सूक्ष्मतर समयः प्रज्ञप्तः श्रमणायुष्मन् । ॥ असोयानां समयानां समुदयसमितिसमागमेन सैकाऽऽवलिकेति प्रोच्यते॥ For Private and Personal Use Only
SR No.020663
Book TitleSatikachatvar Karmgrantha
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1934
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy