SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४० देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः [गाथा प्रदेशपरिमाणोऽप्यसत्कल्पनया षट्पञ्चाशदधिकशतद्वयपरिमाणः कल्प्यते २५६; अत्र प्रथम वर्गमूलं षोडश १६, द्वितीयं वर्गमूलं चत्वारि ४, तृतीयं वर्गमूलं द्वे २; तत्र प्रथमवर्गमूलं षोडशलक्षणं तृतीयवर्गमूलेन गुणितं जाता द्वात्रिंशत् ३२, एवमेते नमःप्रदेशाः सद्भावतोऽस येया अप्यसत्कल्पनया द्वात्रिंशत्सङ्ख्याः परिग्राह्याः । ततः श्रेणेमध्याद् यथोक्तप्रमाणं द्वात्रिंशत्प्रदेशप्रमाणमित्यर्थः क्षेत्रखण्डं यद्येकैकं मनुष्यरूपं क्रमेण प्रतिसमयमपहरति तदाऽसङ्ख्येयोत्सर्पिण्यवसर्पिणीभिः सर्वाऽपि श्रेणिरपहियते यद्येकं मनुष्यरूपं स्यात् , तच्च नास्ति, सर्वोत्कृष्टानामपि समुदितगर्भजसम्मूर्छजमनुष्याणामेतावतामेव भावात् । इदमुक्तं भवति-उत्कृष्टपदवर्तिभिरपि सर्वतः सप्तरज्जुप्रमाणस्य घनीकृतस्य लोकस्यैकैकप्रदेशपतिरूपं श्रेणिमात्रमपि अङ्गुलमात्रक्षेत्रप्रदेशराशिसम्बन्धितृतीयवर्गमूलगुणितप्रथमवर्गमूलप्रदेशप्रमाणैरसत्कल्पनया षट्पञ्चाशदधिकशतद्वयप्रमाणाङ्गुलमात्रक्षेत्रप्रदेशराशिसम्बन्धिद्विकलक्षणतृतीयवर्गमूलगुणितषोडशकलक्षणप्रथमवर्गमूललब्धद्वात्रिंशत्प्रदेशप्रमाणैराकाशखण्डैर्मनुष्यरूपस्थानीयैरपहियमाणमपि नापहियते, एकरूपहीनत्वात् ; यदि पुनरेकं रूपमन्यत् स्यात् ततः सकलाऽपि श्रेणिरपहियेत । कालतश्च प्रतिसमयमेतावत्प्रमाणैरप्याकाशखण्डैरपह्रियमाणा श्रेणिरसङ्ख्याताभिरुत्सर्पिण्यवसर्पिणीभिर्निःशेषतोऽपहियते, कालतः सकाशात् क्षेत्रस्यात्यन्तसूक्ष्मत्वात् । उक्तं च उक्कोसपए जे मणुस्सा हवंति तेसु इक्कम्मि मणूसरूवे पक्खित्ते समाणे तेहिं मणुस्सेहिं सेढी अवहीरइ । तीसे य सेढीए कालखित्तेहिं अवहारो मग्गिज्जइ-कालओ ताव असंखिजाहिं उस्सप्पिणीओसप्पिणीहिं, खित्तओ अंगुलपढमवग्गमूलं तइयवग्गमूलपहुँप्पन्नं । किं भणियं होइ ?-- तीसे सेढीए अंगुलायए खंडे जो पएसरासी तस्स जं पदमवग्गमूलपएसरासिमाणं तं तइयवग्गमूलपएसरासिपडप्पाइए समाणे जो पएसरासी हवइ एवइएहिं खंडेहिं अवहीरमाणी अवहीरमाणी जाव निट्ठाइ ताव मणुस्सा वि अवहीरमाणा अवहीरमाणा निट्ठति । आह कहमेगा सेढी एपहमित्तेहिं खण्डेहिं अवहीरमाणी अवहीरमाणी असंखेज्जाहिं उस्सप्पिणिओसप्पिणीहिं अवहीरइ ? आयरिओ आह-खेत्तस्स सुहुमत्तणओ । सुत्ते वि जं भणियं--- सुहुमो य होइ कालो, तत्तो सुहुमयरयं हवइ खित्तं । अंगुलसेढीमित्ते, ओसप्पिणीओ असंखिज्जा ॥ ( अनु० चू० पत्र ७२ ) इति । १ उत्कृष्टपदे ये मनुष्या भवन्ति तेष्वेकस्मिन् मनुष्यरूपे प्रक्षिप्ते सति तैर्मनुष्यैः श्रेणिरपहियते । तस्याश्च श्रेणेः कालक्षेत्राभ्यां अपहारो मृग्यते-कालतस्तावदसङ्ख्येयाभिरुत्सर्पिण्यवसर्पिणीभिः, क्षेत्रतोऽङ्गुलप्रथमवर्गमूलं तृतीयवर्गमूलगुणितम् । किं भणितं भवति ?-तस्याः श्रेणेरॉलायते खण्डे यः प्रदेशराशिः तस्य यत् प्रथमवर्गमूलप्रदेशराशिमानं तत् तृतीयवर्गमूलप्रदेशराशिगुणिते सति यः प्रदेशराशिर्भवति एतावद्भिः खण्डैरपहियमाणाऽपहियमाणा यावन्निस्तिष्टति तावद् मनुष्या अपि अपहियमाणा अपहियमाणा निस्तिष्ठन्ति । आह कथमेका श्रेणिरेतावन्मात्रैः खण्डेरपह्रियमाणा अपह्रियमाणा असङ्ख्येयाभिरुत्सर्पिण्यवसर्पिणीभिरपहियते ? आचार्य आह-क्षेत्रस्य सूक्ष्मवात् । सूत्रेऽपि यद्भणितं-सूक्ष्मश्च भवति कालस्ततः सूक्ष्मतरकं भवति क्षेत्रम् । अङ्गुलश्रेणिमात्रेऽवसर्पिण्योऽसङ्ख्येयाः ॥ २ जाव अनुयोगद्वारचूर्णौ ॥ ३ °डप्पाडितं अनुयोगद्वारचूणौ ॥ ४ °ढमं वग्गमूलं तं तइयवग्गमूलपएसरासिणा पडुप्पातिजइ, पडुप्पाडिते समाणे जो रासी हवइ एवइएहिं खण्डेहिं सा सेढी अव अनुयोगद्वारचूर्णी ॥ ५ गाथेयमावश्यकनियुक्तौ सप्तत्रिंशत्तमी ॥ For Private and Personal Use Only
SR No.020663
Book TitleSatikachatvar Karmgrantha
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1934
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy