SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७-२८] पडशीतिनामा चतुर्थः कर्मग्रन्थः । १५७ तद् अयुक्तम् , सम्यक् सिद्धान्तापरिज्ञानात् , अवैक्रियाणामपि तेषां स्वभावत एव चेष्टोपपत्तेः । यदाह भगवान् श्रीहरिभद्रसूरिरनुयोगद्वारटीकायाम् घाउकाइया चउव्विहा-सुहुमा पज्जत्ता अपज्जत्ता, बादरा वि य पज्जत्ता अपज्जत्ता । तत्थ तिम्नि रासी पत्तेयं असंखेजलोगप्पमाणप्पएसरासिपमाणमित्ता, जे पुण बादरा पज्जत्ता ते पयरासंखेज्जइभागमित्ता । तत्थ ताव तिण्हं रासीणं वेउबियलद्धी चेव नत्थि । बायरपज्जत्ताणं पि असंखिजइभागमित्ताणं लद्धी अस्थि । जेसि पि लद्धी अस्थि ते वि पलिओवमासंखिजभागसमयमित्ता संपयं पुच्छासमए वेउवियवत्तिणो । तथा जेण सबेसु चेवे उड्डुलोगाइसु चला वायवो विजंति तम्हा अवेउबिया वि वाया वायंति त्ति पित्तवं । सभावो तेसिं वाइयवं । (पत्र ९२, अनु० चू० पत्र ६७) इति । वानाद्वायुरिति कृत्वा “तिण्हं रासीणं" ति त्रयाणां राशीनां पर्याप्तापर्याप्तसूक्ष्मापर्याप्तबादरवायुकायिकानाम् । तथा त एव पूर्वोक्ताः पञ्च कार्मणौदारिकद्विकवैक्रियद्विकलक्षणयोगाः चरमाचतुर्थी असत्यामृषरूपा वाग्-वचनयोगश्चरमवाक् तया युक्ताः षड् योगा भवन्ति । क ? इत्याह'असंज्ञिनि' संज्ञिव्यतिरिक्ते जीवे । तत्र कार्मणमपान्तरालगतावुत्पत्तिप्रथमसमये च, औदारिकमिश्रमपर्याप्तावस्थायाम् , पर्याप्तावस्थायामौदारिकम् । बादरपर्याप्तवायुकायिकानां वैक्रियद्विकम् , चरमभाषा शङ्खादिद्वीन्द्रियादीनामिति । त एव पूर्वोक्ताः षड् योगा वैक्रियद्विकेन-वैक्रियवैक्रियमिश्रलक्षणेन ऊनाः-हीनाश्चत्वारो भवन्ति । क ? इत्याह –'विकलेषु' द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियेषु । कोऽर्थः ? तत्र कार्मणौदारिकद्विकभावना प्राग्वत् । चरमभाषा च असत्यामृषरूपा शङ्खादीनां भवति, शेषास्तु भाषा न भवन्त्येव “विगैलेसु असच्चमोसे वा” इति वचनादिति ॥२७॥ कम्मुरलमीस विणु मण, वइ समइय छेय चक्खु मणनाणे। उरलदुग कम्म पढमंतिम मणवइ केवलदुगम्मि ॥ २८॥ कार्मणमौदारिकमिश्रं विना शेषास्त्रयोदश योगा भवन्ति । क ? इत्याह—मनोयोगे वाग्योगे सामायिकसंयमे छेदोपस्थापनसंयमे चक्षुर्दर्शने मनःपर्यायज्ञाने । भावना सुकरैव । यौ तु कार्मणौदारिकमिश्रौ तौ तेषु सर्वथा न सम्भवत एव, तयोरपर्याप्तावस्थायां भावात् , मनोयोगवाग्योगसामायिकच्छेदोपस्थापनचक्षुर्दर्शनमनःपर्यायज्ञानानां च तस्यामवस्थायामसम्भवात् । ती "उरलदुग" ति औदारिकद्विकमौदोरिकौदारिकमिश्रकार्मणकाययोगौ [मिश्रकाययोगौ] सयोग्यवस्थायामेव समुद्धातगतस्य वेदितव्यौ [ "कम्म" त्ति कार्मणकाययोगः ] १ वायुकाथिकाश्चतुर्विधाः-सूक्ष्माः पर्याप्ताः १ अपर्याप्ताः २, बादरा अपि च पर्याप्ताः ३ अपर्याप्ताः ४ । तत्र त्रयो राशयः प्रत्येकं असङ्ख्येयलोकप्रमाणप्रदेशराशिप्रमाणमात्राः, ये पुनर्बादराः पर्याप्तास्ते प्रतरासङ्ख्यातभागमात्राः । तत्र तावत् त्रयाणां राशीनां वैक्रियलब्धिरेव नास्ति । बादरपर्याप्तानामपि असङ्ख्यातभागमात्राणां लब्धिरस्ति । येषामपि लब्धिरस्ति तेऽपि पल्योपमासङ्ख्येयभागसमयमात्राः साम्प्रतं पृच्छासमये वैकुर्विकवर्तिनः । तथा येन सर्वेष्वेव ऊर्ध्वलोकादिषु चला वायवो विद्यन्ते तस्मादवैकुर्विका अपि वाता वान्तीति ग्रहीतव्यम् । स्वभावस्तेषां वातव्यम् । २ °व लोगा° ख० अनुयोगद्वारलघुटीकायाम् । °व लोगागासाइ अनुयोगद्वारचूर्णी ॥ ३ विकलेषु असल्यामृषा वा ॥ ४ इत ऊर्द्धम्-"केवलद्विके' केवलज्ञानकेवलदर्शनरूपे सप्त योगाः । के ते? इत्याह- इत्येवंरूपः पाठो यदि स्यात्तदा सङ्गतिमेति ॥ ५ °दारिकमिश्रकार्म क०ख० ग० घ० उ०॥ For Private and Personal Use Only
SR No.020663
Book TitleSatikachatvar Karmgrantha
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1934
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy