SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४४ देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः [गाथा इह द्वये मनुष्याः, गर्भव्युत्क्रान्तिकाः सम्मूछिमाश्च । तत्र ये गर्भव्युत्क्रान्तिकास्तेषु यथोक्तं संज्ञिद्विकं लभ्यते । ये तु वान्तपित्तादिषु सम्मूर्च्छन्ति तेऽन्तर्मुहूर्तायुषोऽसंज्ञिनो लब्ध्यपर्याप्तकाश्च द्रष्टव्याः । यदाहुः श्रीमदार्यश्यामपादाः प्रज्ञापनायाम् कहि णं भंते ! सम्मुच्छिममणुस्सा सम्मुच्छंति ? गोयमा ! अंतो मणुस्सखेत्तस्स पणयालीसाए जोयणसयसहस्सेसु अड्डाइजेसु दीवसमुद्देसु पन्नरससु कम्मभूमीसु तीसाए अकम्मभूमीसु छप्पन्नाए अंतरदीवेसु गब्भवकंतियमणुस्साणं चेव उच्चारेसु वा पासवणेसु वा खेलेसु वा सिंघाणेसु वा वंतेसु वा पित्चेसु वा पूएसु वा सोणिएसु वा सुकेसु वा सुक्कपुग्गलपरिसाडेसु वा विगयजीवकलेवरेसु वा थीपुरिससंजोगेसु वा नगरनिद्धमणेसु वा सबेसु चेव असुइट्ठाणेसु इत्थ णं सम्मुच्छिममणुस्सा सम्मुच्छंति अंगुलस्स असंखेजभागमित्ताए ओगाहणाए । असन्नी मिच्छट्ठिी अन्नाणी सव्वाहिं पज्जत्तीहिं अपज्जत्ता अंतमुहुत्ताउया चेव कालं करंति त्ति । (पत्र ५०-१) ___ तान् सम्मूछिममनुष्यानाश्रित्य तृतीयमप्यसंश्यपर्याप्तलक्षणं जीवस्थानं प्राप्यत इति । "सबायरअपज्ज तेऊए" ति तदेवेत्यनुवर्तते, तदेव पूर्वोक्तं संज्ञिद्विकं सह बादरापर्याप्तेन वर्तत इति सबादरापर्याप्तं तेजोलेश्यायां लभ्यते । एतदुक्तं भवति-तेजोलेश्यायां त्रीणि जीवस्थानानि भवन्ति संश्यपर्याप्तः संज्ञिपर्याप्तः बादरैकेन्द्रियापर्याप्तश्च । बादरोऽपर्याप्तः कथमवाप्यते ? इति चेद् उच्यते-इह भवनपतिव्यन्तरज्योतिष्कसौधर्मेशानदेवाः पृथिवीजलवनस्पतिषु मध्ये उत्पछन्ते । यदाह दुःषमान्धकारनिममजिनप्रवचनप्रदीपो भगवान् जिनभद्रगणिक्षमाश्रमणः पुंढवीआउवणस्सइ, गब्भे पज्जत्तसंखजीवीसु । सग्गचुयाणं वासो, सेसा पडिसेहिया ठाणा ॥ (वृ० सं० पत्र ७७-१) ते च तेजोलेश्यावन्तः, यदभाणि किण्हा नीला काऊ, तेऊलेसा य भवणवंतरिया । ___ जोइससोहम्मीसाणि तेउलेसा मुणेयव्वा ॥ (बृ० सं० पत्र ८१-१) यल्लेश्यश्च म्रियते तल्लेश्य एव अग्रेऽपि समुत्पद्यते, "जेल्लेसे मरइ तल्लेसे उववजह" इति वचनात् । अतो बादरापर्याप्तावस्थायां कियत्कालं तेजोलेश्याऽवाप्यत इति सिद्धं जीवस्थानकत्रयं तेजोलेश्यायामिति । कायद्वारे-स्थावरेषु पृथिव्यप्तेजोवायुवनस्पतिलक्षणेषु, इन्द्रियद्वारे एकेन्द्रिये च प्रथमानि चत्वारि जीवस्थानानि सूक्ष्मैकेन्द्रियापर्याप्तसूक्ष्मैकेन्द्रियपर्याप्तबादरैकेन्द्रियापर्याप्तबाद १ व भदन्त ! सम्मूछिममनुष्याः सम्मूर्च्छन्ति ? गोतम ! अन्तर्मनुष्यक्षेत्रस्य पञ्चचत्वारिंशति योजनशतसहस्रेषु अर्धतृतीययोद्वीपसमुद्रयोः पञ्चदशसु कर्मभूमिषु त्रिंशत्यकर्मभूमिषु षट्पञ्चाशत्यन्तद्वीपेषु गर्भव्युत्क्रान्तिकमनुष्याणामेव उच्चारेषु वा प्रश्रवणेषु वा श्लेष्मसु वा सिंघानेषु वा वान्तेषु वा पित्तेषु वा पूतेषु वा शोणितेषु वा शुक्रेषु वा शुक्रपुद्गलपरिशाटेषु वा विगतजीवकलेवरेषु वा स्त्रीपुरुषसंयोगेषु वा नगरनिर्धमनेषु वा सर्वेष्वेवाशुचिस्थानेषु अत्र सम्मूछिममनुष्याः सम्मूर्च्छन्ति अङ्गुलस्यासङ्ख्येयभागमात्रयाऽवगाहनया। असंज्ञिनो मिथ्यादृष्टयोऽज्ञानिनः सर्वाभिः पर्याप्तिभिरपर्याप्तकाः अन्तर्मुहूर्त्तायुष्का एव कालं कुर्वन्ति ॥ २ पृथिव्यन्वनस्पतिषु गर्भजेषु पर्याप्तसङ्ख्यातजीविषु । वर्गच्युतानां वासः शेषाणि प्रतिषिद्धानि स्थानानि ॥ ३ कृष्णनीलकापोततेजोलेश्याश्च भवनव्यन्तराः । ज्योतिष्कसौधर्मेशानेषु तेजोळेश्या ज्ञातव्या ॥ ४ यशेश्यो मियते तल्लेश्य उत्पद्यते ॥ For Private and Personal Use Only
SR No.020663
Book TitleSatikachatvar Karmgrantha
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1934
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy