SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १३] षडशीतिनामा चतुर्थः कर्मग्रन्थः । तैम्मि य तइय चउत्थे, भवम्मि सिज्झति खइयसम्मत्ते । सुरनरयजुगलिस गई, इमं तु जिणकालियनराणं ॥ पडिवत्तीए अविरयदेसपमत्तापमत्तविरयाणं । अन्नयरो पडिवज्जह, सुक्कज्झाणोवगयचित्तो ॥ (विशेषा० गा० १३१४ ) तथा उदीर्णस्य मिथ्यात्वस्य क्षये सति अनुदीर्णस्य उपशमः - विपाकप्रदेशवेदनरूपस्य द्विधस्याप्युदयस्य विष्कम्भणं तेन निर्वृत्तमैौपशमिकम्, तच्च द्विधा — ग्रन्थिभेदसम्भवमुपशमश्रेणिसम्भवं च । तत्र ग्रन्थिभेदसम्भवमेवम् - इह गम्भीरापारसंसारसागरमध्यमध्यासीनो जन्तुर्मिथ्यात्वप्रत्ययमनन्तान् पुद्गलपरावर्तान् अनन्तदुः खलक्षाण्यनुभूय कथमपि तथाभव्यत्वपरिपाकवशतो गिरिसरिदुपलघोलनाकल्पेनाऽनाभोगनिर्वर्तितयथाप्रवृत्तिकरणेन " करणं परिणामोऽत्र" इति वच - नादध्यवसायविशेषरूपेणाऽऽयुर्वजनि ज्ञानावरणीयादिकर्माणि सर्वाण्यपि पल्योपमास भाग - न्यूनैकसागरोपम कोटाकोटीस्थितिकानि करोति, अत्र चाऽन्तरे जीवस्य कर्मजनितो घनरागद्वेषपरिणामरूपः कर्कशनिबिडचिरप्ररूढगुपिलवक्रग्रन्थिवद् दुर्भेदोऽभिन्नपूर्वो प्रन्थिर्भवति । तदुक्तम् Acharya Shri Kailassagarsuri Gyanmandir १३९ ती विथोमित्ते, खविए इत्थंतरम्मि जीवस्स । हवइ हु अभिन्नपुव्यो, गंट्ठी एवं जिणा बिंति ॥ ( धर्मसं० गा० ७५२ ) गंठि त्ति सुदुब्भेओ, कक्खडघणरूढगूढगंठि व्व । जीवस्स कम्मजणिओ, घणरागद्दोस परिणामो ॥ (विशेषा० गा० ११९५ ) इति । इमं च ग्रन्थि यावद् अभव्या अपि यथाप्रवृत्तिकरणेन कर्म क्षपयित्वाऽनन्तशः समागच्छन्ति । उक्तं चावश्यकटीकायाम् अभव्यस्यापि कस्यचिद् यथाप्रवृत्तिकरणतो ग्रन्थिमासाद्य अर्हदादिविभूतिदर्शनतः प्रयोजनान्तरतो वा प्रवर्तमानस्य श्रुतसामायिकलाभो भवति न शेषलाभ इति ॥ ( पत्र ७६ ) एतदनन्तरं कश्चिदेव महात्मा समासन्नपरमनिर्वृतिसुखः समुल्लसितप्रचुरदुर्निवारवीर्यप्रसरो निशितकुठारधारयेव परमविशुद्ध्या यथोक्तस्वरूपस्य ग्रन्थेर्भेदं विधाय मिथ्यात्वस्थितेरन्तर्मुहूर्त - मुदयक्षणादुपर्यतिक्रम्याऽपूर्वकरणानिवृत्तिकरणलक्षणविशुद्धिजनितसामर्थ्योऽन्तर्मुहूर्तकालप्रमाणं तत्प्रदेशवेद्यदलिकाभावरूपमन्तरकरणं करोति । अत्र यथाप्रवृत्तिकरणापूर्वकरणानिवृत्तिकरणानामयं क्रमः -- जो गंठी ता पढमं, गंठिं समइच्छओ भवे बीयं । अनियट्टीकरणं पुण, सम्मत्तपुरक्खडे जीवे ॥ ( विशेषा० गा० १२०३ ) For Private and Personal Use Only १ तस्मिंश्व तृतीये चतुर्थे भवे सिद्ध्यन्ति क्षायिकसम्यक्त्वे । सुरनारकयुगलिकेषु गतिरेतत्तु जिनकालिकनराणाम् ॥ प्रतिपत्तौ अविरतदेशप्रमत्ताप्रमत्तविरतानाम् । अन्यतरः प्रतिपद्यते शुक्लध्यानोपगतचित्तः ॥ २ तस्या अपि स्तोकमात्रे क्षपितेऽत्रान्तरे जीवस्य । भवति हि अभिन्नपूर्वो ग्रन्धिरेवं जिना ब्रुवते ॥ ग्रन्थिरिति सुदुर्भेदः कर्कशघनरूढ गूढप्रन्थिरिव । जीवस्य कर्मजनितो घनरागद्वेषपरिणामः ॥ ३ यावद् ग्रन्थिस्तावत् प्रथमं ग्रन्थि समतिक्रामतो भवेद् द्वितीयम् । अनिवृत्तिकरणं पुनः पुरस्कृतसम्यक्ले जीवे ॥
SR No.020663
Book TitleSatikachatvar Karmgrantha
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1934
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy