________________
Shri Mahavir Jain Aradhana Kendra
१३६
www.kobatirth.org
देवेन्द्रसूरिविरचितखोपटी कोपेतः
[ गाथा
tares न एसो, अन्नं कप्पट्टि त्ति काऊणं । ( पञ्चव० गा० १५११ ) उपदेशं पुनर्यथाशक्ति प्रयच्छति । मुण्डापनद्वारेऽपि नासावन्यं मुण्डापयति । अथ प्रव्रज्यानन्तरं नियमतो मुण्डनमिति प्रव्रज्याग्रहणेनैव तद् गृहीतमिति किमर्थं पृथग् द्वारम् ? तदयुक्तम्, प्रव्रज्यानन्तरं नियमतो मुण्डनस्याऽसम्भवात्, अयोग्यस्य कथञ्चिद्दत्तायामपि प्रव्रज्यायां पुनरयोग्यतापरिज्ञाने मुण्डनायोगाद्, अतः पृथगिदं द्वारमिति । प्रायश्चित्तविधिद्वारे - मनसाऽपि सूक्ष्ममप्यतिचारमापन्नस्य नियमतश्चतुर्गुरुकं प्रायश्चित्तमस्य यत एष कल्प एकाग्रताप्रधानस्ततस्तद्भङ्गे गुरुतरो दोष इति । कारणद्वारे — कारणं नामाऽऽलम्बनम्, तत्पुनः सुपरिशुद्धं ज्ञानादिकम्, तस्य न विद्यते येन तदाश्रित्याऽपवादपदसेविता स्यात्, एष हि सर्वत्र निरपेक्षः क्लिष्टकर्मक्षयनिमित्तं प्रारब्धमेव स्वं कल्पं यथोक्तविधिना समापयन् महात्मा वर्तते । उक्तं च--- करणमालंबणमो, तं पुण नाणाइयं सुपरिसुद्धं । एयस्स तं न विज्जइ, उचियं तवसौहणोपायं ॥
त्थ निरवयक्खो, आढैवियं सं दढं समाणतो ।
वट्टइ एस महप्पा, किलिट्टकम्म क्खयनिमित्तं ॥ ( पश्चव० गा० १५१७ - १८ ) निष्प्रतिकर्मताद्वारे – एष महात्मा निष्प्रतिकर्मशरीरोऽक्षिमलादिकमपि कदाचिद् नापन - यति, न च प्राणान्तिकेऽपि व्यसने समापतिते द्वितीयपदं सेवते । उक्तं चनिप्पँडिकम्मसरीरो, अच्छिमलाई वि नावणेइ सया । पात व महावसणम्मि न वट्टए बीए ॥ अंप्पबहुत्तालोयणविसयाईओ उ होइ एस त्ति ।
य
अहवा सुहभावाओ, बहुगं पेयं चिय इमस्स ॥ ( पञ्चव० गा० १५१९-२० )
भिक्षाद्वारे - भिक्षा विहारक्रमश्चाऽस्य तृतीयस्यां पौरुष्यां भवति, शेषासु च पौरुषीषु कायोत्सर्गः, निद्राऽपि चाऽस्याऽल्पा द्रष्टव्या । यदि पुनः कथमपि जङ्घाबलमस्य परिक्षीणं भवति तथाऽप्येकोऽविहरन्नपि महाभागो न द्वितीयपदमापद्यते, किन्तु तत्रैव यथाकल्पमात्मीययोगान् विदधाति । उक्तं च---
व° ॥
Acharya Shri Kailassagarsuri Gyanmandir
तैंइयाए पोरिसीऍ, भिक्खाकालो विहारकालो उ ।
सेसासु य उस्सग्गो, पायं अप्पा य निद्दीं वि ॥ ( पञ्चव० गा० १५२१ )
०
१ प्रवाजयति नैषोऽन्यं कल्पस्थितिरिति कृत्वा ॥ २ कारणमालम्बनं तत् पुनः ज्ञानादिकं सुपरिशुद्धम् । एतस्य तन्न विद्यते उचितं तपःसाधनोपायः ॥ ३ पञ्चवस्तुके तु- साहणा पायं - साधनात्प्रायः ॥ ४ सर्वत्र निरपेक्ष आदृतं स्वं दृढं समापयन् । वर्त्तते एष महात्मा क्लिष्टकर्मक्षयनिमित्तम् ॥ ५° रववक्खो क० घ० ङ० ॥ ६ °ढवियं चेव सं स° ख० । पञ्चवस्तुके तु - आढत्तं चिय द° ॥ ७ निष्प्रतिकर्मशरीरोऽक्षिमलाद्यपि नापनयति सदा । प्राणान्तिकेऽपि च महाव्यसने न वर्त्तते द्वितीये ॥ ८ पञ्चवस्तुके तु-तहा ९ अल्पबहुत्वालोचन विषयातीतस्तु भवत्येष इति । अथवा शुभभावाद् बहुकमप्येतदेवास्य ॥ १० तृतीयस्यां पौरुष्यां भिक्षाकालो विहारकालस्तु । शेषासु च उत्सर्गः प्रायोऽल्पा च निद्राऽपि ॥ ११ निद्दति ॥ इति पञ्चषस्तुके ॥
For Private and Personal Use Only