SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः गाथा वा भवेद् अवेदो वा, तत्र सवेदः श्रेणिप्रतिपत्त्यभावे उपशमश्रेणिप्रतिपत्तौ वा, क्षपकश्रेणिप्रतिपत्तौ स्ववेद इति । उक्तं च 'वेदो पवित्तिकाले, इत्थीवज्जो उ होइ एगयरो । पुव्वपडिवन्नओ पुण, होज्ज सवेओ अवेओ वा ॥ ( पञ्चव० गा० १४९७) __ कल्पद्वारे-स्थितकल्प एवायं नास्थितकल्पे, “ठियकप्पम्मि वि नियमा" (पञ्चव० गा० १५३३) इति वचनात् । तत्राऽऽचेलक्यादिषु दशस्वपि स्थानेषु ये स्थिताः साधवस्तत्कल्पः स्थितकल्प उच्यते, ये पुनश्चतुषु शय्यातरपिण्डादिष्ववस्थितेषु कल्पेषु स्थिताः शेषेषु चाऽऽचेलक्यादिषु षोस्थितास्तत्कल्पोऽस्थितकल्पः । उक्तं च ठिय अट्रिओ य कप्पो, आचेलकाइएसु ठाणेसु । सव्वेसु ठिया पढमो, चउ ठिय छसु अट्ठिया बीओ।। (पञ्चव० गा० १४९९) आचेलक्यादीनि च दश स्थानान्यमूनि आचेलक्कुद्देसियसिज्जायररायपिंडकिइकम्मे । वयजिट्टपडिक्कमणे, मासंपज्जोसवणकप्पे ॥ (पञ्चव० गा० १५००) चत्वारश्वावस्थिताः कल्पा इमे सिज्जायरपिंडम्मी, चाउज्जामे य पुरिसजेटे य । किइकम्मस्स य करणे, चत्तारि अवट्ठिया कप्पा ॥ (पञ्चाश० १७ गा० १०) लिङ्गद्वारे-नियमतो द्विविधेऽपि लिङ्गे भवति । तद्यथा--द्रव्यलिङ्गे भावलिङ्गे च । एकेनापि विना विवक्षितकल्पोचितसामाचार्ययोगात् । लेश्याद्वारे-तेजःप्रभृतिकासूत्तरासु तिसृषु विशुद्धासु लेश्यासु परिहारविशुद्धिकं कल्पं प्रतिपद्यते, पूर्वप्रतिपन्नः पुनः सर्वाखपि कथञ्चिद् भवति, तत्राऽपीतराखविशुद्धलेश्यासु नात्यन्तसंक्लिष्टासु वर्तते, तथाभूतासु वर्तमानो न प्रभूतं कालमवतिष्ठते, किन्तु स्तोकम् , यतः खवीर्यवशात् झटित्येव ताभ्यो व्यावर्तते । अथ प्रथमत एव कस्मात् प्रवर्तते ? उच्यते-कर्मवशात् । उक्तं च लेसासु विसुद्धासुं, पडिवज्जइ तीसु न उण सेसासु । पुव्वपडिवन्नओ पुण, हुज्जा सव्वासु वि कहंचि ॥ नच्चंतसंकिलिट्ठासु थोवकालं च हंदि इयरेसु । चित्ता कम्माण गई, तहा वि विरियं फलं देइ ॥ (पञ्चव० गा०१५०३-४) १ वेदः प्रवृत्तिकाले स्त्रीवर्जस्तु भवति एकतरः । पूर्वप्रतिपन्नकः पुनर्भवेत् सवेदोऽवेदो वा ॥ २ स्थितकल्प एव नियमात् । ३ स्थितोऽस्थितश्च कल्पः आचेलक्यादिकेषु स्थानेषु । सर्वेषु स्थिताः प्रथमः चतुर्पु स्थिताः षट्वस्थिता द्वितीयः ॥ ४ आचेलक्यौद्देशिकशय्यातरराजपिण्डकृतिकर्माणि । व्रतज्येष्ठप्रतिक्रमणानि मासपर्युषणाकल्पौ॥ ५ शय्यातरपिण्डे चतुर्यामे च पुरुषज्येष्ठ्ये च । कृतिकर्मणश्च करणे चत्वारोऽवस्थिताः कल्पाः॥ ६ पञ्चाशके प्रवचनसारोद्धारे च-'ठिइकप्पो मज्झिमाणं तु' इत्येवं पाठः ॥ ७ लेश्यासु विशुद्धासु प्रतिपद्यते तिसृषु न पुनः शेषासु । पूर्वप्रतिपक्षकः पुनर्भवेत् सर्वाखपि कथञ्चित् ॥ नात्यन्तसंक्लिष्टासु स्तोककालं च हन्दि इतरासु । चित्रा कर्मणां गतिः तथापि वीर्यं फलं ददाति ॥ ८ इयरासु घ० पञ्चवस्तुके च॥ For Private and Personal Use Only
SR No.020663
Book TitleSatikachatvar Karmgrantha
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1934
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy