________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०२ देवेन्द्रसूरिविरचितः सावचूरिकः
[गाथा गणास्थानमाश्रित्य, स चात्र बहुषु स्थानेषूपयोगीति मूलतोऽपि दर्शाते
अभिनवकम्मग्गहणं, बंधो ओहेण तत्थ वीस सयं । तित्थयराहारगदुगवजं मिच्छम्मि सतरसयं ।। नरयतिग जाइथावरचउ हुंडाऽऽयवछिवट्ठनपुमिच्छं । सोलंतो इगहियसउ, सासणि तिरिथीणदुहगतिगं ॥ अणमज्झागिइसंघयणचउ निउज्जोय कुखगइत्थि ति । पणवीसंतो मीसे, चउसयरि दुआउय अबंधा ।। सम्मे सगसयरि जिणाउबंधि वइर नरतिग बियकसाया । उरलदुगंतो देसे, सत्तट्ठी तियकसायंतो ॥ तेवढि पमत्ते सोग अरइ अथिर दुग अजस अस्सायं । वुच्छिज छच्च सत्त व, नेइ सुराउं जया निहूँ ।। गुणसहि अप्पमत्ते, सुराउबंधं तु जइ इहागच्छे । अन्नह अट्ठावन्ना, जं आहारगदुगं बंधे ॥ अडवन्न अपुवाइमि, निद्ददुगंतो छपन्न पणभागे । सुरदुग पणिदि सुखगइ, तसनव उरल विणु तणुवंगा ॥ समचउर निमिण जिण वन्नअगुरुलहुचउ छलंसि तीसंतो। चरिमे छवीसबंधो, हासरईकुच्छभयभेओ ॥ अनियट्टिभागपणगे, इगेगहीणो दुवीस विहबंधो । पुमसंजलणचउण्हं, कमेण छेओ सतर सुहुमे ॥ चउदंसणुच्चजसनाणविग्घदसगं ति सोलसुच्छेओ।
तिसु सायबंध छेओ, सजोगि बंधंतुणंतो य ॥ (गाथा ३-१२) इति ।। एतासां दशानामपि गाथानां व्याख्यानं कर्मस्तवटीकातो बोद्धव्यम् । इत्योघवन्धः । इह कर्मस्तवोक्तगुणस्थानकबन्धाद् नरतिरश्चां मिश्राऽविरतगुणस्थानकयोरयं विशेषःकर्मस्तवे मिश्रगुणस्थानके चतुःसप्ततिः अविरतसम्यग्दृष्टिगुणस्थानके सप्तसप्ततिः तिरश्चां पुनर्मनुष्यद्विकौदारिकद्विकवज्रऋषभनाराचसंहननरूपप्रकृतिपञ्चकस्य बन्धाभावाद् मिश्रगुणस्थानके एकोनसप्ततिः, अविरतसम्यग्दृष्टौ सुरायुःक्षेपे सप्ततिः, नराणां तु मिश्रे एकोनसप्ततिः, अविरतसम्यग्दृष्टौ तीर्थकरनामसुरायुःक्षेपे एकसप्ततिः । अस्यां च एकसप्ततौ यदि मनुष्यद्विकौदारिकद्विकवज्रऋषभनाराचसंहननप्रकृतिपञ्चकं नरायुष्कं च क्षिप्यते तदा कर्मस्तवोक्ता सप्तसप्ततिर्भवत्यविरतगुणस्थानके । तथा कर्मस्तवे देशविरतगुणस्थानके या सप्तषष्टिरुक्ता सा तिरश्चां जिननामरहिता षट्षष्टिर्देशविरतगुणस्थाने भवति । प्रमत्तादीनि गुणस्थानानि तिरश्चां न सम्भवन्ति । नराणां तु सर्वगुणस्थानकसम्भवेन देशविरतादिगुणस्थानकेषु कर्मस्तवोक्त एव सर्वोऽप्यन्यूनाधिक ओघबन्धो वाच्यः । ततश्च पर्याप्तनराणां सामान्येन बन्धे विंशत्युत्तरशतं प्रकृतीनां प्राप्यते, तेषामेव मिथ्याहशां सप्तदशोत्तरशतम् , सासादनानामेकोत्तरशतम् ,
For Private and Personal Use Only