SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ९६ देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः [ गाथा महमहमिकया समायातसुरासुरनरोरगनायक निकरै: "जय जीव नन्द क्षत्रियवरवृषभ !" इत्यादिवचनरचनया स्तूयमानः सम्प्राप्य ज्ञातखण्डवनं प्रतिपन्ननिरवद्यचारित्रभारः साधिकां द्वादशसंवत्सरीं यावत् परीषहोपसर्गवर्ग संसर्गमुग्रमधिसह्य परमसितध्यानाऽकुण्ठकुठारधारया सकलघनघातिवनखण्डखण्डनमखण्डमाधाय निर्मला विकल केवलबलावलोकित निखिललोकालोकः श्री गौतमप्रभृतिमुनिपुङ्गवानां तत्त्वमुपदिश्य संसारसरितः सुखं सुखेन समुत्तरणाय भव्यजनानां धर्मतीर्थमुपदर्थ्याऽयोगिकेवलिचरमसमये त्रयोदश प्रकृतीर्द्वादश प्रकृतीर्वा क्षपयित्वा 'सिद्धिं ' परमानन्दरूपां प्राप्तः, तं 'नमत' प्रणमत 'वीरं' श्रीवर्धमानखामिनम् किं विशिष्टम् ? 'देवेन्द्रवन्दितं' देवानां भवनपतिव्यन्तरज्योतिष्कवैमानिकानामिन्द्राः खामिनो देवेन्द्रास्तैर्वन्दितः शशधरकरनिकर विमलतरगुणगणोत्कीर्तनेन स्तुतः शिरसा च प्रणतः "वदुङ् स्तुत्यभिवादनयोः” इति वचनात्, यद्वा पदैकदेशे पदसमुदायोपचाराद् देवेन्द्रेण - देवेन्द्रसूरिणा आचार्येण श्रीमज्जगचन्द्रसूरिचरणसरसीरुहचञ्चरीकेण वन्दितः सकलकर्मक्षयलक्षणाऽसाधारणगुणसङ्कीर्तनेन स्तुतः कायेन च प्रणत इति । 'नमत' इति प्रेरणायां पञ्चम्यन्तं क्रियापदम् तच्च श्रोतॄणां कथञ्चिदनाभोगवशतः प्रमादसम्भवेऽप्याचार्येण नोद्विजितव्यम्, किन्तु मृदुमधुरवचोभिः शिक्षानिबन्धनैः श्रोतॄणां मनांसि प्रह्लाद्य यथार्ह सन्मार्गप्रवृत्तिरुपदेष्टव्या इति ज्ञापना - र्थम् । यदाह प्रवचनोपनिषद्वेदी भगवान् हरिभद्रसूरिः Acharya Shri Kailassagarsuri Gyanmandir अणुवत्तणाइ सेहा, पायं पार्वति जुग्गयं परमं । रयणं पि गुणुक्करिसं, उवेइ सोहम्मणगुणेणं ॥ ( पञ्चव० गा० १७ ) इत्थ य पमायखलिया, पुवभासेण कस्स व न हुंति । जो तेsas सम्मं, गुरुत्तणं तस्स सफलं ति ॥ ( पञ्चव० गा० १८ ) को नाम सारहीणं, स हुज्ज जो भद्दवाइणो दमए । दुट्ठे वय जो आसे, दमेइ तं सारहिं बिंति ॥ (पञ्चव० गा० १९ ) इति ॥ ३४॥ ॥ इति श्रीदेवेन्द्रसूरिविरचितायां खोपज्ञकर्मस्तवटीकायां सत्ताधिकारः समाप्तः ॥ ॥ तत्समाप्तौ च समाप्ता लघुकर्मस्तवटीका ॥ सत्ताधिकारमेनं, विवृण्वता यन्मयाऽर्जितं सुकृतम् । निःशेषकर्मसत्तारहितस्तेनास्तु लोकोऽयम् ॥ १ अनुवर्तनया शिक्षकाः प्रायः प्राप्नुवन्ति योग्यतां परमाम् । रत्नमपि गुणोत्कर्षमुपैति शोधकगुणेन ॥ अत्र च प्रमादस्खलितानि पूर्वाभ्यासेन कस्य वा न भवन्ति ! । यस्तानि अपनयति सम्यग् गुरुत्वं तस्य सफलमिति ॥ को नाम सारथीनां स भवेद् यो भद्रवाजिनो दमयेत् ? । दुष्टानपि च योऽश्वान् दमयति तं सारथिं ब्रुवते ॥ For Private and Personal Use Only
SR No.020663
Book TitleSatikachatvar Karmgrantha
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1934
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy