SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १३-१५] कर्मस्तवाख्यो द्वितीयः कर्मग्रन्थः । ८५ यद्यपि बादरपर्याप्तै केन्द्रियेषूत्पद्यते तथापि न तस्यातपनामोदयः, तत्रोत्पन्नमात्रस्या समाप्तशरीरस्यैव साखादनत्ववमनात्, समाप्ते च शरीरे तत्राऽऽतपनामोदयो भवति, मिथ्यात्वोदयः पुनर्मिथ्यादृष्टावेव तेनैतासां पञ्चप्रकृतीनां मिथ्यादृष्टावुदयस्यान्तः । तत इदं प्रकृतिपञ्चकं पूर्वोक्तसप्तदशशताद् अपनीयते शेषं द्वादशशतं साखादने उदयं प्रतीत्य भवति, नरकानुपूर्व्यपनयने चैकादशशतं भवतीत्येतदेवाह - " सासणे इगारसयं नरयाणुपुविणुदय" त्ति सास्वादन एकादशशतमुदये भवति, नरकानुपूर्व्यनुदयात्, नरकानुपूर्व्या उदयो हि नरके वक्रेण गच्छतो जीवस्य भवति, न च साखादनो नरकं गच्छति । यदुक्तं बृहत्कर्मस्तव भाष्ये Acharya Shri Kailassagarsuri Gyanmandir नैरयाणुपुधियाए, सासणसम्मम्मि होइ न हु उदओ । नरयम्मि जं न गच्छर, अवणिज्जइ तेण सा तस्स || ( गा० ८ ) दाहुः श्रीभद्रबाहुखामिपादाः - ततो नरकानुपूर्वी मिथ्यादृष्टिव्यवच्छिन्नसूक्ष्मत्रिकातपमिथ्यात्वलक्षणप्रकृतिपञ्चकं च सप्तदशशताद् अपनीयते शेषं सासादने एकादशशतं भवतीति । " अणथावरइग विगल अंतु " त्ति " अण" ति अनन्तानुबन्धिनश्चत्वारः क्रोधमानमाया लोभाः स्थावरनाम " इग" ति एकेन्द्रियजातिः विकलाः – पञ्चेन्द्रियजात्यपेक्षयाऽसम्पूर्णा द्वीन्द्रियजातित्रीन्द्रियजातिचतुरिन्द्रियजातय इत्यर्थः इत्येतासां नवानां प्रकृतीनां साखादनेऽन्त उदयमाश्रित्य भवति । इयमत्र भावना-अनन्तानुबन्धिनामुदये हि सम्यक्त्वलाभ एव न भवति । पढमिल्लयाण उदए, नियमा संजोयणाकसायाणं । सम्मद्दंसणलंभं, भवसिद्धीया वि न लहंति ॥ ( आ० नि० गा० १०८ ) नापि सम्यग्मिथ्यात्वं कोऽप्यनन्तानुबन्ध्युदये गच्छति, योऽपि पूर्वप्रतिपन्न सम्यक्त्वोsनन्तानुबन्धिनामुदयं करोति सोऽपि साखादन एव भवतीत्युत्तरेष्वासामुदयाभावः । स्थावरे - केन्द्रियजातिविकलेन्द्रियजातयस्तु यथाखमेकेन्द्रिय विकलेन्द्रियवेद्या एव । उत्तरगुणस्थानानि तु संज्ञिपञ्चेन्द्रिय एव प्रतिपद्यते, पूर्वप्रतिपन्नोऽपि पञ्चेन्द्रियेष्वेव गच्छतीत्युत्तरेष्वासामुदयाभाव इति ॥ १४ ॥ मी सयमणुपुवीणुदया मीसोदएण मीसंतो । चउसयमजए सम्माणुपुव्विखेवा बियकसाया ॥ १५ ॥ 'मिश्रे ' सम्यग्मिथ्यादृष्टौ शतमुदये भवति, कथम् ? इत्याह - " अणुपुवीणुदय" त्ति, इहानुपूर्वीशब्देन तिर्यगानुपूर्वीमनुजानुपूर्वीदेवानुपूर्वीलक्षणा आनुपूर्वीत्रयी गृद्यते तस्या अनुदयात् मिश्रोदयेन च । अयमत्र भावः -- नरकानुपूर्वी तावद् उदयमाश्रित्य साखादने व्यवच्छिन्ना, इह सा न गृह्यते; शेषमानुपूर्वीत्रिकं मिश्रदृष्टेर्नोदेति, तस्य मरणाभावात् "र्ने सम्म १० ख० ० ॥ २ नरकानुपूर्व्याः सासादनसम्यक्त्वे भवति न ह्युदयः । नरकं यन्न गच्छति अपनीयते तेन सा तस्य ॥ ३ प्रथमानामुदये नियमात् संयोजनाकषायाणाम् । सम्यग्दर्शनलाभं भवसिद्धिका अपि न लभन्ते ॥ ४ न सम्यग्मिनः करोति कालम् ॥ For Private and Personal Use Only
SR No.020663
Book TitleSatikachatvar Karmgrantha
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1934
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy